________________
S
a
kanda
Acharya ShatkadassigaisanGyanmantire
UCK
रणोपलम्मा,श्रुतिः श्रुतार्थापत्तिचैतदर्थे प्रमाणतामवगाहेते एव । तत्र श्रुतिस्तावत्-"तमेव विदित्वातिमृत्युमेति"मृत्युरविद्येति शाने प्रसिद्ध,तथा "वभावाद्भ्यश्चान्ते विश्वमायानिवृत्तिः"स्मृतिश्च-(गीता अ०७)"देवी झेषा गुणमयी,मममाया दुरत्यया ।। मामेव ये प्रपद्यन्ते, मायामेतां तरन्ति ते॥१४॥ (अ०५)ज्ञानेन तु तदज्ञानं, येषां नाशितमात्मनः॥ तेषामादित्यवज्ज्ञानं, प्रकाशयति तत्परम् ॥१६॥" इत्यादि । एवं "ब्रह्मविद्ब्रह्मैव भवति" "तरति शोकमात्मवित्." "तरत्यविद्यां वितता हृदि यस्मिनिवेशिते॥ योगी मायाममेयाय,तस्मै ज्ञानात्मने नमः ॥१॥"इति "अविद्यायाः परं पारं तारयसि" इत्यादिः श्रुतार्थापत्तिश्च-"ब्रह्मज्ञानाद्न ब्रह्मभावः श्रयमाणस्तस्यवधायकाज्ञाननिवृत्तिमन्तरेण नोपपद्यत इति ज्ञानादज्ञाननिवृत्चिं गमयति"1" अनृतेन हि प्रत्यूढाः" "नीहारेण प्रावृता,"अन्यथुष्माकमन्तरं," (गीता अ०५) "अज्ञानेनावृतं ज्ञानं,तेन मुह्यन्ति जन्तवः ॥१५॥" इत्यादि श्रुतिस्मृतिशतेभ्योऽज्ञानमेव मोक्षव्यवधायकत्वेनावगतम्, एकस्यैव तत्त्वज्ञानेनाज्ञाननिवृत्त्यम्युपगमाञ्च, नान्यत्र व्यभिचारदर्शनेन ज्ञानस्याज्ञानीनवर्तकत्वबाधोऽपीति चेत्, न, एतस्यैकजीवमुक्तिवादस्य श्रद्धामात्रशरणत्वात्, अन्यथा जीवान्तरप्रातभासस्य स्वामिकजी वान्तरप्रीतभासवद्विभ्रमत्वे जीवप्रतिभासमात्रस्यैव तथात्वं स्यादिति चार्वाकमतसाम्राज्यमेव वेदान्तिना प्राप्तं स्यात् । उक्तश्रुतयस्तु कर्मण एवं व्यवधायकत्वं क्षीणकर्मात्मन एव च ब्रह्मभूयं प्रतिपादयितुमुत्सहन्त इति किं शशशृङ्गसहोदराज्ञानादिकल्पनया तदभिप्रायविडम्बनेन । निर्विकल्पकब्रह्मबोधोऽपि शुद्धद्रव्यनयादेशतामेवावलम्बताम्, सर्वपर्यायनयविषयव्युत्क्रम एव तत्प्रवृत्ते, न तु सर्वथा जगदभावपक्षपीततामिति सम्यग्दृशांवचनोगारः ॥ शाब्द एव स इत्यत्र तु नाग्रहः, यावत्पर्यायोपरागासम्भवविचारसहकृतेन मनसैव तद्ग्रहसम्भवाद, न केवलमात्मनि, किं तु सर्वत्रैव द्रव्ये पर्यायोपरागानुपपत्तिप्रसूतविचारे मनसा निर्विकल्पक
निरूपणे वेदान्तिम
तखण्डने | ज्ञानस्याज्ञानिवर्त कत्वे प्रमाणतया वेदान्त्युपदर्शितयोःश्रुतिश्रुतार्थापयोरेकजोववादखण्डनेन जैनेष्टकमंगतमुक्तिव्यवधायकपरतयानय
all Til
Fat PW
And Penal Use Only