________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्व प्रदीपे
विष्यत्यतो नास्माकमन्तरायमित्यभिप्रायेण क्षपणैजिनाचमनिषेधयद्भिः स्वाभिनिवेशेन पृथक्मतस्थापनाय मुक्तिनिषिद्धा । त्वया तु स्त्रीणां न मुक्तिरिदमुत्सूत्रमित्यभिप्रायेण स्त्रीमुक्ति मन्वानेनाऽऽशातनाभ्रान्त्या जिनार्चनं निषिद्धम् । ततोऽन्तरायाऽग्रह्णात्क्षपणानां त्वत्तो निपुणत्वमित्यर्थः ॥७॥
स्त्रियास्त्वदीये भावार्चा, न यतः कारणं विना । निषेधे द्रव्यतोऽर्चाया, निषेधो भावतोऽप्यभूत् ||८||
व्याख्या - त्वदीये स्त्रिया भ वार्चापि न बुध्यते । 'यतः कारणं विना' द्रव्यतोऽर्चाया- द्रव्यपूजाया निषेधे भावतोऽयर्चाया भावपूजाया अपि निषेधोऽभवत् ||८||
सुक्षेत्रं शासनाघाटो, बोधिदं चैत्यमत्र तत् । अनन्तोदितपापार्त्ता, अबलाः किं निराकृताः || ९ ||
८६
For Private And Personal Use Only
स्पष्टः || ९ ||
देशनामदनोत्पन्ने, द्रव्यार्चायां यतेरपि । कारितानुमती तीर्थ-च्छेदो मास्त्विति कारणात् ॥ १० ॥
व्याख्या - यतेरप्यास्तां गृहस्थस्य, चारित्रिणोऽपि द्रव्यार्चायां देशनामदनोत्पन्ने कारितानुमती भवतः । देशनाया: कारितं, मोदनादनुमतिः । कर्तव्या जिनपूजेति देशनया जिनपूजायाः कारणम् । शोभनेयं जिनपूजेत्यनुमोदनयाऽनुभतिरित्यर्थः । कस्मात ?, 'तीर्थच्छेदो माऽस्तु इति कारणात्' यतेः कारणानुमती विना तीर्थच्छेदात् । इत्थं च चारित्रिणोऽपि विषयविभागेन जिनपूजनस्य कर्तव्ये समापन्ने सति सावद्यनिमग्नानां उदितानन्तपापराशीनां स्त्रीणां तन्निषेधने कथं तव जिह्वा वक्तुमुत्सहते ? इति ॥ १० ॥