SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपे Arrowon व्याख्या-यत् पूर्वमाषाढचतुर्मासक-पर्युषणयोरन्तराले एकोनपञ्चाशद्दिनानां स्थाने पञ्चाशदिवसा अर्हद्भट्टारकर्मण्यन्ते । सा तैः कृता रूढिरेव । यत्सामान्यविवक्षायां एकोनविंशको मासस्त्रिशो मासो गण्यते, विशेषविवक्षायां एकोनत्रिंश एकोनत्रिंश एव । तथा पर्युषणाकल्पचूर्णी पर्युषणस्य- पर्युषणकथनस्य, क्षण:प्रस्तावः, अन्यथा पर्युषणाकल्प इत्यस्य नाम्नोऽलीकत्वप्राप्तिः स्यात् । तथा (तः) चतुर्थी एकाकिनी उक्ता, न चतुर्दशी । यथा कालकाचार्य-लघुकथासु पर्युषणदिवसे इयं कथा कथनीयेति कारणात्पर्युषणस्यैव प्रस्तावः । ततश्चतुर्थ्यकाकिनी प्रोक्ता। तथाचूर्णिलघुकथयोः सडक्षेपरूपत्वाच्च चतुर्दशी न प्रोक्ता। केव ? आचार्यान्यचर्येव । यथा कालकाचार्यस्य अन्यतरा चर्या-कर्तव्यता । यथा कालिकाचार्येण पञ्चम्याश्चतुझं वार्षिकप्रतिक्रमणं समानीतमित्यादिरूपा चूर्णिलघुकथयोर्न प्रोक्ता तथा चतुर्दश्यपि न । 'कत्थवि देसग्गहणं, कत्थवि भणंति निरवसेसाई । उक्कमकमजुत्ताई, सुत्ताण विचित्तभावाओ' ॥१॥ इति वचनात् ॥२०, २१॥ युग्मम् ॥ यदि कालिकाचार्येण कृता, ततः कथं कुत्रचिच्छास्त्रे न दृश्यते ? इति चतुर्मासकचतुर्दश्याः परोपन्यस्तं दूषणं शास्त्रानुक्तत्वेपि सङघपरम्पराऽऽयातत्त्वेन प्रध्वस्तमपि शास्त्रोक्तत्वेनापि प्रध्वंसयन् शास्त्रस्य प्रामाण्यं प्रदर्शयन्नाह कथायां विधिवादस्तु, तदशेनादिवाक्यतः । प्रमाऽऽद्यत्वं सकल्पत्वा-याख्याने पुस्तकेपि च ॥२२॥ व्याख्या-कथायां-कालिकाऽऽचार्यबृहत्कथायां चतुर्थीचतुदश्योविधिवादः, तु-पुनरुवतः, न चूर्णिवच्चरितानुवादः । 'तव्वसेण य For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy