SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थो विश्रामः स्तमतकप्रदानसम्भवात् । एवं महाराजश्रीकर्णप्रतिपत्तौ पूर्णिणमीयका निःसृता इति श्रूयमाणवचनस्यैव प्रामाण्यात् । तथा 'देशादि 'ति गूर्जरदेशात्, पराऽऽहंताभ्यां आचार्यनृपाभ्यां-आचार्यश्रीहेमसूरि-राजाधिराजश्रीकुमारपालदेवाभ्यां, यूयं कथं ताडिताःनिष्कासिताः ? यथा शतमवध्यं सहस्रमदण्डयं तथा पुरातनमपि मतान्तरं समग्रदेशप्रसरणशीलतया कर्षयितुमशक्यं स्यात् । तथाकरणे च जनापवादप्रसङगात् । अत एवैताभ्यां दिगम्बराः स्वदेशान्न कर्षिताः । पराऽर्हतत्वेनाऽऽचार्यस्य निर्मत्सरत्वं दर्शितम् । नहि तस्य महात्मनः चारित्रपरेषु मत्सरः, अष्टमीचतुर्दश्योर्वादीन्द्राचार्यश्री देवसूरिप्रभृतिषु वन्दनपर्युपासनश्रवणात् । 'अन्यथा वदतां जै, वाचं त्वहह ! का गतिः' इत्यादि वचनोद्गारस्य जिनवचनभिन्नसप्तधातोराचार्यस्यास्य राकोत्सूत्रासहिष्णुतयव राकामतनि र्धाटनात् ॥५॥ - परम्परायातश्रीसङघमध्ये निजमतसम्बन्धिसङघबाह्यत्वदर्शनात् वयं शिथिलै विशिष्टक्रियादर्शनासहिष्णुतया सङ्घबाह्याः कृता इति राकामतीयोक्तिमाक्षिपन् राकामतपरम्पराया अभावं दर्शयन्नाह कृताः सङघेन बाह्याः कि, सङघः सङघो न सोऽन्यथा । सन्तानमखिलं चन्द्र-प्रभस्यैवाव्रतं च किम् ? ॥६॥ र व्याख्या-यदि युष्माकं परम्परा आसीत्, ततो यूयं कि चतुर्विधश्रीश्रमणसङधेन सङघबाह्याः कृताः ? न भ्रष्टैरेव । अक्षाथा-यदि सङघेन सङघबाह्या न कृताः, ततस्स सङघ एव न भानात, तस्य सङघस्य व्यवच्छेदप्रसंगात् । यदि तत्कालवर्ती सङघो नव्यनिःसृतराकामतमवलोक्य शक्ती सत्यां सङ्घबाह्यं न For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy