________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो विश्रामः
इति गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याय उपधानस्थापनानामा तृतीयविश्रामः ॥३॥
इति गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये तृतीयविश्रामस्य विवरणम् ॥३॥
चतुर्थ-विश्रामः । भेजे चन्द्रप्रभाचार्यो, गुरोः कस्याऽनुयोगतः ? ।
श्रुतोक्ताः पूणिमास्तिस्त्रः, श्रुतोक्ताचरणं त्यजन् ॥१॥ व्याख्या-चन्द्रप्रभाचार्यो-राकामताऽऽकर्षकश्चन्द्रप्रभसूरिनामा प्रथमाचार्यः, श्रुतोक्ता: - सिद्धान्ताऽऽख्यातास्तिस्रः पूणिमाः संवत्सरान्तः संजायमानचतुर्मासकत्रयस्य राकात्रयं, कस्य गुरोरनुयोगतोऽनुकूलप्राप्तेरर्थादेशादित्यर्थः । कारणे कार्योपचारात् । यथा तन्दुलान् वर्षति पर्जन्यः । नहि गुरोरनुकूलप्राप्ति विना सूत्रस्याऽ
देशः सम्भवति । अनुकूलत्वं गुरुयोगस्य सर्वसङघानुमत्या । भेजे-कस्य गुरोरनुकूलाऽऽदेशेन श्रितवानित्यर्थः । गुर्वादेशेन विना हि श्रुतविश्रुतैकाक्षरस्याप्यर्थसमर्थनमनौचितीमञ्चति । यतः श्रुतोक्तमात्रमेव न स्वार्थसाधनपटिष्ठं स्यात्, विशेषव्याख्यानरहितत्वात्तस्य । तस्य अनुयोगाऽऽत्तमेव विशेषव्याख्यानम् । यदागमः - जं जह सुत्ते भणियं, तहेव तं जइ वियालणा नत्थि । कि कालियाणुओगो, दिट्ठो दिठिप्पहाणेहिं ? ॥१॥ (भाष्यम्)
श्रीधर्मदासगणिरप्याह
For Private And Personal Use Only