SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विश्रामः निर्वाणसचेलधर्मसम्बन्धिशेषोपन्यास आक्षिप्यतामस्मत्कुतूहलाय । कुमुदचन्द्रो निजखूण्णपतनलज्जया शून्यचित्तो विस्मृतोपन्यासो मौनावलम्ब एव स्थितवान् । राजा प्राह-कुमुदचन्द्र ! कटित्रे लिख्यतामुपन्यासः शिष्यभवनभयात् खटिकामनङगीकुर्वति कुमुदचन्द्रे सभ्येन लिखितः कटित्रे उपन्यासः फालस्खलितचित्रकाय इव खिन्नो विलक्षस्सतन्द्रः कुमुदचन्द्रश्चित्तास्वास्थ्यभावात्तं लिखितोपन्यासमुत्थापयितुमशक्नुवन्निदमाह-महान् वादी श्रीदेवाचार्य इत्यलं विवादेन । ततस्त्यक्तवामचरणकटकजालकुद्दालनिश्रेणि श्रीकरिको निश्रीकः पाश्चात्यद्वारा निःसृत्य गतः स्वदेशं कुमुदचन्द्रः । ततो राजा स्वधवलगृहे महोत्सवं नगरान्तमहतीं हट्ट शोभां च कारयित्वेदमवदत् । प्रभो ! जिह वान्युञ्छने द्वादश ग्रामा भवन्तु भवताम् । प्रभुराह-कुक्षिशम्बलानामस्माकं किं प्रयोजनं ग्रामैः ? । ततो महत्या शासनप्रभावनया प्रभुश्रीदेवसूरयः स्वोपाश्रयमलञ्चक्रुः ॥३७॥ अत्यन्तकुगुरुत्वेन, प्रस्तावात् प्रागमी स्मृताः । आर्द्रगुप्तस्य शिष्योऽ-स्थाद्यापनीयश्चतुर्दशीम् ॥३८॥ व्याख्या-अत्र शास्त्रे हि कुगुरुदशकोल्लिङगनायामनुल्लिडिगता अपि अमी दिगम्बराः, अतिकुगुरुतया प्रस्तावं भणित्वा प्राक्-प्रथम, स्मृताः- कथिताः । अथ यापनीयमतमाह-आर्द्रगुप्तस्य आर्द्रगुप्तसूरेः श्वेताम्बराचार्यस्य शिष्यः कश्चित् यापनीयो भूत्वा चतुर्दशी अस्थात्-न तत्याजेत्यर्थः ॥३८॥ यापनीयोऽपनीय स्वं, वस्त्रं नग्नाटनाटके । ततोऽपि क्षपणाऽऽभास-स्तस्थौ देशानुवृत्तितः ॥३९॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy