SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विश्रामः wwwwwne मूर्छा वस्त्राद् भवेत्ते चेद्, न स्त्रियास्तदतोऽपितम् । . वस्त्रं त्वया ततो मुक्तिस्त्वं पुनर्लोकपापभाक् ॥२५॥ व्याख्या-अत्राहुर्नग्नाटाः - वस्त्रस्योपरि मूभिवनादस्मा• भिर्वस्त्रं परित्यक्तम् । उच्यते-चेद्-यदि, वरत्रात्-वस्त्रग्रहणात्, ते-तब, मूर्छा मोहो भवति । ततः स्त्रिया वस्त्रग्रहणे सति न मूर्छा स्यादिति बलात् सिद्धं । अत्र हेतुमाह-अतो-अस्मात् स्त्रीमोहा भवनलक्षणात् कारणात् त्वया स्त्रीणां वस्त्रं समर्पितम् । यदि त्वद्वत् स्त्रीणामपि वस्त्रेषु मूर्छा उदपश्यत, ततः परमकारुणिकः त्वं न स्त्रीणां वस्त्रमार्पयिष्यः । अतस्त्वद्वस्त्रार्पणेनैवास्माभिरित्यनुमितं-यत् स्त्रीणां मूर्छा नास्ति । ततो मूर्छाया अभावे स्त्रीणां मुक्तिरिति सिद्धं । मोहनीयकर्मण एवात्यर्थ मोक्षविघ्नभूतत्वात् । ननु अस्मदाप्तेन लोकव्यवहारतः स्त्रीणां वस्त्रमर्पितम् । उच्यते-लोके काश्चित् योगिन्यो नग्ना अपि प्रेक्ष्यन्ते, तद् व्यवहारेण त्वन्नारीणामपि कासाञ्चिन्नग्नत्वमुचितं । तथा तहि त्वदाप्तेन तवापि लोकव्यवहारेण वस्त्रं किं नापितम् ? । ततः त्वत्तः स्त्री निर्मोहा इति बलादापन्नं, त्वं पुनर्लोकपापभाक् । त्वां नग्नां निरीक्ष्य यदसम्बद्धजल्पनादि पापं जनो विदधाति, तस्य पापस्य हेतुत्वेन त्वं विभागवानभूरित्यर्थः । यदि तव समोहस्य लोकपापभाजश्च मुक्तिस्ततः स्त्रीणां विशेषतो मुक्तिरिति ॥२५।। अमीषां लोकपापहेतुत्वं दर्शयन्नाहलिङगे त्वगिव वस्त्रं हि, न ते तापसवत्तव । भैक्षं मठादौ स्त्रीवों, वस्त्रं च गृहिभोजने ॥२६॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy