SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विश्रामः GANJmAAAAJAanumar ऋषीणां शीतवेदनोपशान्तये स्वयमेवोपस्थितानामुपासकानां शकटिकाग्निप्रज्वालने को नामास्माकं दोष: ? इति परोक्तमुत्थापयन्नाह निमित्तताऽग्निवस्त्रे ते-ऽनुमतिश्चानिषेधतः । स्वेदान्मे वस्त्रयूकाश्चेत्, तत्तेऽप्यावृतिजन्तवः ।।२१।। व्याख्या-ते-तव, अग्निवस्त्रे-अग्निरेव शीतत्राणकारितया वस्त्रं अग्निवस्त्रं, तत्र निमित्तता-कारणभावोऽभूत् । त्वत्कारणेनोपासकैरग्निवस्त्रं कृतमित्यर्थः । तथा अनिषेधतोऽग्निवस्त्र ते-तवानुमतिर्बभूव । अप्रतिषिद्धमनुमतमिति विद्वत्प्रवादात् । चेद्-यदि, मे-मम स्वेदाद् वस्त्रे यूका भवन्तीति मन्यसे, ततस्तेऽपि-तवापि, आवृतिजन्तवः - अग्निवस्त्रतृणपटोत्थाः प्राणिनो भवन्ति ॥२१॥ यूकानां पालनं मे ते, जन्तूनां हिंसनं पुनः । श्रुतं छिन्नं न कि यूयं, श्रुतोद्धारोऽप्यसौ न किम् ? ।।२२।। व्याख्या-न तावत् सर्वेष्वपि वस्त्रेषु सर्वदैव यूकानां संसक्तिः। याः काश्चिदप्रशस्यवस्त्रेषु कस्यचिद् वायोर्वशतः स्वेदसंसर्गात् पतन्ति, तासां स्वापत्यवत् परिपालनेन मम दोषाऽभावः । ते-तव पुनरावृतिजन्तूनां हिंसनमेव । तद्यथा-अग्निवस्त्रे प्राणिहिंसा प्रकटव, तृणपटे तु प्रक्षालनादेः कुन्थुपनकादिवधः स्यात् । तदित्थं हिंसासक्तानां भवतां सर्वथैव व्रताभावः । नग्नाटानां श्रुताभावतोऽपि पाखण्डित्वं घटते। यतः- श्रुतं छिन्नं वदन्त्येते । वक्तव्यास्तहि-यदि यौष्माकीणे श्रुतं छिन्नं, ततः कथं यूयं न छिन्नाः ? यतः पाठकानामभावे श्रुतच्छेदसम्भवः, ततः प्रथमं युष्माकमेव छेदो घटते । तथा असो वर्तमानश्रुतोद्धारो यौष्माकीणे मते किं न छिन्नः ? । श्रुतरक्षणाशक्तौ श्रुतोद्धाररक्षणाशक्तेरपि सम्भवात् । For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy