SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विश्रामः इति गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये प्रथमविश्रामः समाप्तः इति गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये प्रथमविश्रामस्य विवरणम् ॥ द्वितीयो विश्रामः । दिगम्बराणां लोकप्रसिद्धस्याऽऽद्यत्वस्यालीककारणं दर्शयन्नाह पूर्वमप्रावृतिः कार्य, श्रमणानां ततोऽभिधाः । तास्ता हलायुधे तर्केऽप्याद्या नग्ना अतो जने ॥१॥ व्याख्या-श्रमणानां-श्वेताम्बराणां, पूर्व-पुरा, कार्ये सति अप्रावृतिरप्रावारक आसीत् । कार्याभावे सर्वदेव निरावरणत्वात्, सावरणत्वे पार्श्वस्थत्वभवनात् । ‘बंधइ कडिपट्टयमकज्जे' (उप० माला) इतिवचनात् । ततः - तस्मात् कारणात् हलायुधे-भट्टहलायुधकृतायां नाममालायां तास्ता अभिधास्तानि तानि नामानि उक्तानि । यदाह-'नग्नाटो दिग्वासा:, क्षपणः श्रमणश्च जीवको जैनः। आजीवो मलधारी, निर्ग्रन्थः कथ्यते सद्भिः ॥१॥ श्वेताम्बराणां शास्त्रेषु श्रमणनाम्नः श्वेताम्बरे प्रसिद्धत्वाद्य एव श्वेताम्बरः स एव नग्नाटादिः । श्वेताम्बरव्यतिरिक्तस्य नग्नाटादेरसम्भवात् । श्रमणानां कार्ये वस्त्रधारितया मलिनवस्त्रदर्शनेन मलधारिहेमसूरेरिव मलधारिनामभवनात् । देहमलस्य शयनीयादिसंसर्गतःप्रायो व्यपगमात् कार्याभावे च वस्त्रत्यागदर्शनेन नग्नाटादिनामभवनात् । श्वेताम्बराणां नग्नत्वस्य मुख्यत्वान्नग्नाटादिनामभवने विरोधाभावात् । हलायुधनाममालानुसारेण तर्केऽपि For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy