SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो विश्रामः ११९ यदस्मिन धर्मे श्री शत्रुजयप्रभृतीन्येवंविधानि तीर्थामि नगरमहास्थानादिष्वेवंविधाः प्रासादाः दृश्यन्ते । तदसावपि धर्मोऽस्तीति जनेनापि मन्येत, तत्-तस्मात्कारणादत्र-सिद्धपूजावां, पुण्डरिकाःश्रीशत्रुञ्जये संतिष्ठमानपुण्डरीकप्रतिमा प्रमाणं ॥१०॥ पुष्पादिपूजात्यागो हि, स्याच्चरित्राचरित्रयोः । द्वयातीतप्रभोः पूजा-निषेधे धावनं मधा ॥११॥ व्या-हिर्यस्मात्कारणात् पुष्पादिपूजात्यागश्चारित्रस्य स्यात, चारित्रभङ्गात् । अचारित्रस्यापि स्यात, पूजाया अनधिकृतत्वात् । द्वयातीतप्रभो:-'सिद्धे नो चरिते नो अचरित्ते' इतिवचनात् चारित्राचारित्रमुक्तस्य सिद्धस्य पूजानिषेधे धावनं-त्वरितगमन, मुधाऽलीक क्रियते ॥१॥ राकौष्ट्रिको बहिः सघात, सार्धराकाञ्चलौ बहिः। राकायाश्चाञ्चलाच्चासि, पूज्ये पूजा न ते ततः॥१२॥ व्याख्या-तावदविच्छन्नसङधे परम्पराऽऽयातस्य सङधस्य मध्यात् पूणिमीयकखरतरौ बाह्यावभूता । पूणिमीयकानां मध्यात् सार्धपूर्णिमीयकाऽञ्चलो बाह्यावभूतां । असि त्वं पूर्णिमीयकाऽञ्चलिकयोर्मध्यात बाह्योऽभूः । ततः-तस्मात्कारणात्ते-तव, पूज्ये पूजा नाभूत् । युक्तो हि पूज्यपूजाव्यतिक्रमो बाह्येभ्योऽपि बाह्यस्य तव ॥१२॥ आगमज्ञस्य चारित्र-चारिणो न तथा यथा । चमत्कृतिरधिष्ठातुस्तिष्ठेद्र पतिचेतसि ॥१३॥ (काले) ततोऽत्रापि सुरैस्तैस्तद्वर्तते जनमीशं । न तुर्योत्सर्गदानं यत्तत् ज्ञातं साधु साधु ते ॥१४॥ व्याख्या-भूपतिचेतसि-राज्ञश्चित्ते, चमत्कृतिश्चमत्कारस्तथा तेन प्रकारेणाऽऽगमज्ञस्य-आगमविदश्चारित्रचारिणश्चारित्रिणश्च For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy