________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
'तल्लक्खणं चेयं' इत्यक्षराणि किमुक्तानि ? यतो-यस्मात् कारणात्, अशठेनादि लक्षणं 'असढेण समाइण्णं' इत्यादि प्राक लिखितगाथोवतं लक्षणं श्रुते सिद्धान्ते न स्यात् । सिद्धान्ते हि यद् वाक्यं अशठेन समाचीर्णं तदेव प्रमाणमिति लक्षणं न स्यात्, सिद्धान्तोक्त [स्योदाविनृपमारका दिभिरपि शठ ] समाचीर्णस्य प्रमाणत्वात् । 'जं कत्थइति । यत् कुत्रापि क्षेत्रे समाचीर्णं तदेव प्रमाणमित्यपि न स्यात् । सिद्धान्तोक्तस्य बहुतरेष्वपि क्षेत्रेषु समाचर्यमाणस्य प्रमाणत्वात् । 'केणई असावज्जं न निवारियमन्नेहि बहुमणुमय' मिति यद् वाक्यं केनचित् समाचीर्ण यच्चासावद्यं यच्चान्यैर्न निवारितं यच्च बहुमतं तदेव प्रमाणं इति लक्षणं सिद्धान्ते न स्यात्, सिद्धान्तोक्तस्य बहुगीतार्थसमाचीर्णत्वेन निःपापत्वेन च अन्यैरनिवारितत्वेन च बहवनुमतत्वेन च प्रमाणत्वात् । 'एयमायरियमिति । एतदाचरितं एतदाचरितस्यैव लक्षणमित्यर्थः । सूत्रादाचरितं पृथगेवेति । तत्-तस्मात् कारणात् कूटव्याख्यया- कूटेन व्याख्यानेन कृतं पर्याप्तम् । यतोऽनन्तसंसार परिभ्रमणमेव फलं कूटव्याख्यानस्य ॥४॥
सामाचारी स्थापन्नाह
उज्जयन्तादिगाथादि - सामाचारीपराङ्मुखः ।
यदि त्वमिव सङ्घः स्यात्, तीर्थच्छेदस्तदा भवेत् ॥५॥
११२
व्याख्या - यदि भगवान् सङ्घस्त्वमिव उज्जयन्तादिसामाचारीपराङ्मुखो भवेत् ।
उक्तं च- उज्जित से लसिहरे, दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवट्टी, अरिनेमिं नम॑सामि ||१||
For Private And Personal Use Only