SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठो विश्रामः वासपरिहाणपरिहिया बलिपुप्फवकडच्छ्यहत्या गया। तओ पभावइए सव्वं बलिमाइ काउं भणियं-देवाधिदेवो महावीरवद्धमाणसामी तस्स पडिमा कीरउत्ति पहराहिवाहिओ कुहाडो ॥२५॥ माङगल्येन फलं पुष्पाद, वानस्पत्येन वा कथम् । होनं स्नात्रोदकादग्रो-दकं सावधमद्य किम् ? ॥२६॥ व्याख्या-पुष्पात् फलं माङ्गल्यन-मङ्गलत्वेन, वा-अथवा वानस्पत्येन-वनस्पतिविकारत्वेन' कथं हीनं ? अपि तु न हीनं, समानमित्यर्थः । ततः प्रभौ पुष्पानामनिषेधे फलानामप्यनिषेध एवापद्यते । अतः फलनिषेधेऽपि महामूढतैव तव । तथा चावश्यकचूणिः- पत्त-पुप्फ-फल-बीय-मल्ल-गंध-वण जाव चुण्णवासंति'त्ति। तथा स्नात्रोदकादग्रोदकं अवयं-सावद्यं किमभूत् ? सङघपरम्पराऽऽयातत्वेन अल्पत्वेन च प्रभोः पुरतो ढौकितोदकस्याल्पसावद्यत्वात्। तनिषेधे प्रकटैव महामूर्खतेति ।।२६।। यद् यद् बहुफलं तत् तन्, निषिद्ध धिगजानता। सङघतीर्थकरौ सूत्रं, मिथो हेतुत्वतस्सदा ॥२७॥ व्याख्या-अहो आञ्चलिक !.यत् यत् पूर्वोक्तं बहुफलं तत् तत् त्वया निषिद्धम् । धिगिति खेदे। किविशिष्टेन त्वया ? अजानता, कि ? सूत्रं किं तत्सूत्रं ? सङघतीर्थकरौ, कस्मात् ? मिथो हेतुत्वतः । तीर्थात् तीर्थकरः, तीर्थकरात् तीर्थमिति बीजाङकुरवद् भवनेनोभयोरपि सिद्धान्ततामजानानेन सङघपरम्पराऽऽयातं तीर्थकरोक्तमिव अक्षरेषु दृष्टमदृष्टं वा छिन्नसूत्रोक्तत्वात् सूत्रानुयायित्वात् वा सर्वमपि प्रमाणमेवेत्यश्रद्धानेनाभिनिवेशतरलिताऽन्तःकरणेन बहुफलमेवाखिलं निषिद्धमिति ।।२७।। स्थापनाचार्य स्थापयन्नाह For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy