SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपे व्याख्या-सूत्र-सिद्धान्ते, श्राद्धे-श्रावके वेषो न स्यात् तु पुनस्साम्यं तिष्ठति 'अतो मुखवस्त्रिका त्यक्ता इति चेत् ततस्सामायिक तं वेषं विना न भवेत् । यदि सूत्रे श्रावकस्य सामायिकं तिष्ठति ततो वेषोपि तिष्ठतीति भावः । कुतः ? शिक्षाव्रतत्वात्-शिक्षाव्रतानामन्तर्गतत्वेन शिक्षाव्रतनाम्नैव सिद्धं सवेषत्वं । हियस्मात् कारणात्, शिक्षा-शिक्षणमभ्यासो भण्यते । सा च यतिस्थद्रव्यभावयोर्यति सम्बन्धिनो द्रवस्य भावस्य च परिज्ञेयेत्यर्थः । द्रव्यं वेषधारित्वं, भावस्समतापरिणामः । अर्वाचीनावस्थेन श्रावकेनोभयमपि शिक्षणीयं पराचीनावस्थायां यतिरूपायामुभयेनापि कार्यत्वादिति सिद्धं सवेषत्वं सामायिकस्य ॥१०॥ शिक्षाक्तत्वेन सामायिकतदुपलक्षितपोषधयोरिव देशावकाशिकातिथिसंविभागयोः किं न मुखवस्त्रिकेति परोक्तस्य -समाधानं सूत्रान्तरेण मुखवस्त्रिकारजोहरणे च स्थापयन्नाह द्रव्यं प्राधान्यतस्साम्य एवाल्पं शिक्षणं च यत् । रूप्पमाथुक्तितो द्रव्य-भावाभ्यां श्रमणेषु यत् ॥११॥ तसस्योपमया श्राद्ध, लिङगेद्वे देशतो यतः। श्रामण्यं सर्वतो द्रव्यस्याभाबाबुपमापि न ॥१२॥ युग्मम् व्याख्या-श्रावकस्य साम्ये एव सति, न देशावकाशिका. तिथिसंविभागयोस्सतोद्रव्यं मुखवस्त्रिकारजोहरणे अतःकारमादागमे प्रोक्ते कारणमाह-प्राधान्यतः-सामायिकस्य प्रधानत्वात् । मुख्यानुष्ठाने हि परिनिष्ठिताभ्यासस्यानुलग्नसकलानुष्ठाने सुखेन सात्म्यभावात् स्थविरकल्पिजिनकल्पसम्बन्धिनस्सकलानुष्ठानस्य सर्वदैव ताभ्यां कार्यत्वात् । क्षणमप्येतयोरग्रहणे प्रायश्चित्ताऽऽगमनात् । द्वितीयं कारणमाह-तथा यत्-यस्मात्कारणात् शिक्षणमल्पं For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy