SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपे हीनाधिका वा कृता दोषाय तु-पुनः, साम्यं-सामायिक, श्रुतेसिद्धान्ते बहुशो-दिनान्तरऽनेकवारं कर्तव्यमिति प्रोक्तम् । यदाह 'सामाइयंमिवि कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुशो सामाइयं कुज्जा' ॥१॥ प्रतिकातिवत् द्विवेलमेव साम्यमपि विधेयमित्यसदाग्रहो मुच्यताम् ।।६।। ___बहुशः शब्दसम्बन्धिनो व्याख्यानस्य परकृतमोटनमुत्थापयन् पौषधमितेर्दोष दर्शयंश्चाह चेन्नैकवासरापेक्ष, तद्विकालं तथा न किम् ? । पौषधस्य मितौ साम्य-मितेर्दोषो विशेषतः ॥७॥ व्याख्या-चेत्-यदि, मैकवासरापेक्ष 'बहुसो सामाइयं कुर्जा' इत्येतद्वाक्यं एकदिवसापेक्षया न, किन्तु बहुदिवसापेक्षया । एकस्मिन् दिने सामायिकद्वयं कर्तव्यं, द्वितीयस्मिन् दिने सामायिकद्वयं, एवं तृतीय-चतुर्थादिदिनेष्वपि सर्वाण्यपि मीलितानि बहूनि भवन्ति । किमुक्तं भवति-एकस्मिन्नपि दिवसे प्रमादो न विधेयो । यथा यावज्जीवं बहूनि सामायिकानि भवन्तीति बहुशः शब्दस्य व्याख्या इति चेदागममोटना[प्रेक्ष्य मुख तत्-ततस्तथा-तेम प्रकारेण, द्विकालं किं न ? 'उभओ कालं आवस्सयं करेख' इति वचनादङ्गीकृतं द्विवेलं सामायिकं यावज्जीवापेक्षया कि न मन्यसे ? जन्मनो मध्ये सामायिकद्वयमेव कर्तव्यमित्यपि सिद्धान्तशत्रोर्भवतो व्याख्यानानुसारेण लभ्यते । तथा साम्यमितेः पार्वात् पौषधस्य मितौ-अप्टमी चतुर्दशीपूर्णिमाऽमावास्यादिषु पर्वस्वेव पौषधमादेयं, नान्येषु दिनेवितिलक्षणपोषधपरिमाणे सति, विशेषतो दोषो भवति । यतः सामायिकात् पौषधस्य बहुकलत्वेन मितावपि दोषबाहुल्यस्य सम्भवात् ।।७।। For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy