SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ॐ नमो जिनाय । - आगमोद्धारक-आचार्य श्री आनन्दसागरसूरीश्वरेभ्यो नमः । चिरन्तनाचार्यविरचितः स्वोपज्ञविवरणमण्डितः उत्सूत्रकन्दकुद्दालापरपर्यायः। गुरुतत्यप्रदीपः। तीर्थनाथं नमस्कृत्य, स्तुत्वा च श्रुतदेवताम् । गुरुतत्त्वप्रदीपं तं, स्वोपज्ञं विवृणोम्यहम् ॥१॥ ग्रन्थप्रारम्भे विघ्नप्रशान्तये इष्टदेवतानमस्कारो विधीयते इति पारम्पर्याराधनाय इष्टदेवतानमस्कारपूर्व प्रस्थाभिधानं स्वप्रतिज्ञां च दर्शयन्नाह - प्रणम्य श्रीमहावीर-मुत्सूत्रतिमिरच्छिदे । गुरुतत्त्वप्रदीपोऽयं, माध्यस्थ्यात् क्रियते मया ॥१॥ व्याख्या-स्पष्टः । नवरं-माध्यस्थ्यादिति ग्रस्थकृतः प्रतिज्ञायदेतद् गुरुतत्त्वप्रदीपामिधानं शास्त्रं, तद् रागद्वेषविरहितेन चेतसा मया विधीयमानमस्ति ।।१।। अत्रोत्सूत्रप्रवृत्तस्सत्सूत्रानाभोगतः क्वचित् । पुनस्सूत्रे निमन्त्र्योऽहं, मातः ! शासनदेवते ! ॥२॥ व्याख्या - स्पष्ट: । नवरं - निमन्त्र्यः - आकारणीयः । भगवद्गम्भीरागमविषयविभागापरिज्ञानसमुत्थोत्सूत्रप्ररूपणभीरुतयेदं शासनदेवतासाहाय्यमभ्यर्थितम् ।। ___ अथ 'गुरुतत्त्वप्रदीपोऽयं माध्यस्थ्याम्मया क्रियते' इत्युक्तं, ततो मध्यस्थस्य भावो माध्यस्थ्यमिति व्युत्पत्तेमध्यस्थस्यव स्वरूपमाह For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy