________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पूर्व (1) फलान्तरकथनं त्ववेष्टिन्यायेन बहिःप्रयोगान्तरस्वीकारान्न दुष्यति / यावद्भूमण्डलमित्यादिस्तु पूर्णताफलश्रुतिवदर्थवादः / पुरति पूर्वकालमात्रविधिः ततश्चाव्यवधानांशस्यात्राकथनात् सूक्तपुटितत्वस्य ब्रक तु रात्रिसूक्तं पठेदादावित्यनेन विवरणात्, आदिमध्यान्तपदैः क्रमपदेन च विकृतस्य श्रोतक्रमत्वेन (2) तहाधायोगाद्रात्रिसूक्तात् पूर्वमेव नवार्णस्य निवेशः। एवमर्गलास्तुतेरपीदं स्तोत्र पठित्वा तु महास्तोत्रं पठेन्नरः (1) यथा राजसूयप्रकरणे समानाताप्यवेष्टोष्टिहिविधा राजसूयाङ्गभूता स्वतन्वा च। तत्राद्या राजसूय एव प्रयुज्यते सा च केवलक्षत्रियकर्तृका, राजा राजसूयेन यजेतेति श्रुतेः। द्वितीया च यागाद वहिरेव प्रयुज्यते सा च सर्वहिजसाधारणा; तां प्रकृत्य यदि ब्राह्मणो यजेत वाहस्पत्य मध्ये निधायाहुति हुत्वा तामभिधारयेत्, यदि राजन्य ऐन्द्रम, यदि वैश्यो वैश्वदेवमिति विधानात्। तथा सप्तशतीप्रकरणे समानातोऽप्ययं कवचो विधा सप्तशत्यङ्गभूतः स्वतन्त्रश्च, आद्यः सप्तशतीपाठ एव प्रयुज्यते तस्य च न फलान्तरम्, फलवत्सबिधावफलं तदङ्गमिति न्यायात्, द्वितीयस्तु स्वतन्त्रतया वहिरेव प्रयुज्यते तस्यैव फलान्तरकथनमुपयुज्यत इत्याह पूर्व मिति / (2) क्रमावबोधकेषु श्रुत्यऽर्थ-पठन-स्थान-मुख्य-प्रवृत्याख्येषु प्रमाणेषु श्रुतिरेव बलीयसी, सा चात्र रात्रिसूत्रमित्यादिवचनरूपा तबोधितोऽयं क्रमः इत्यस्य श्रोतक्रमत्वम् / For Private and Personal Use Only