SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याश्वलायनोये समिधमेवापि श्रद्दधान श्रादधन्मन्येत यज इदमिति नमस्तस्मै. य आहुत्या यो वेदेनेति विद्ययैवाप्यस्ति प्रीतिस्तदेतत्पश्यन्नूषिरुवाच. अगोरुधाय गविषेधुक्षा यदस्म्यं वचः। एतात्वादीयो मधुनश्च वोचतेति. वच एव म इदं एताच मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्वित्येव तदाह. आ ते अन ऋचा हविर्हदा तष्टं भरामसि । ते ते भवन्तक्षण ऋषभासो वशा उतेति. एत एवम उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति. य इमं स्वाध्यायमधीयत इति यो नमसा स्वध्वर इति नमस्कारेण वै खल्वपि न वै देवा नमस्कारमति यज्ञो वै नम इति हि ब्राह्मणं भवति ॥५॥ ॥१॥ समिधमेवापि श्रद्दधान अादधन्मन्येत इत्यारभ्य यजो वै नम इत्यन्तं ब्राह्मणं भवति । तत्र समिधेत्यस्य तात्पर्यकथनं ब्राह्मणं । ममिधमेवापीति । समिधमेवापि श्रद्दधान आदधद्यज इदं देवतमिति मन्येतेव । कुतः। नमस्तस्मै । अत्र नमःशब्देनानमुच्यते। निघण्टषु नमःशब्दोऽनमामसु पठितः । समिदपि तस्मै दैवताय नमो भवति अन्नं भवति। प्रीतिहेतुर्भवतीत्यर्थः । श्रद्दधान इत्यनेन श्रद्धायुक्तस्यैव पाकयजेऽधिकार इति ज्ञाप्यते । य आहुतीत्यस्य विवरणं ब्राह्मणं। य श्राहुत्येति । तत्र 'सुपां सु लुग्’ [पा ॥१॥३६॥] इत्यादिना तृतीयकवचनस्य पूर्वसवर्णदेशः । यो वेदेनेत्यस्य तात्पर्यकथनं ब्राह्मणं । यो वे For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy