________________
Shri Mahavir Jain Aradhana Kendra
[ २. ८]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-गृह्यपरिशिष्टे ।
कुन्तपाणिमश्ववाहनं चित्रिणीप्रियं कुबेरमावाहयामि । शुद्धस्फटिकवर्णं वरदाभयशूलाक्षत्रधरं टषवाहनं' गौरीप्रियमीशानमावाहयामि, इतिपूर्ववत्पूजयेत् ॥७॥
अथाग्निमुपसमाधाय अन्नाधानाद्यांज्यभागान्तं कृत्वा सहर्श्विकभिः समिच्चर्वाज्यानि प्रत्येकं शतैकावराभिः सहस्रम्पराभिराहुतिभिर्निमित्तशक्त्यपेक्षया जुहुयात्प्रधानदशांशेन पार्श्वदेवतयोस्तदर्धनेतरेषां स्वाहान्तैर्नामभिहामस्तत्त लिङ्गमन्त्री सहदवदानेन चरु होमः पाणिना प्रभूतांस्तिलांश्च व्याहृतिभिर्हुत्वा प्राक् स्विष्टकृतेा ग्रहाणां घण्टादिशब्दैरुपहारानुपगृह्य सपुष्पाणि रत्नानि निवेदयेदभावे सुवर्णपुष्पाणि वा, तान् नमस्कृत्य प्रसीदन्तु भवन्त इति प्रसाद्य होमं समापयेत्स यदि मन्त्रैरिष्टस्तदैते मन्त्रा भवन्त्याकृष्णेन रजसा वर्त्तमानः, आप्यायस्व समेतुते, अग्निर्भूडीदिवः ककुत्, उद्दुध्यध्वं समनसः सखायो, बृहस्पते अतियद अहीत्, शुक्रन्ते अन्यद्यजतन्ते अन्यत्, शमग्निरग्निभिः करत्, कयानश्चिच आभुवत्, केतु कृखन्नकेतव इति ग्रहाणां अग्निं दुतं कृणीमहेऽप्सु मे सामा अब्रवीत्स्योना पृथिवी भवेदं विष्णुर्विश्वक्रम इन्द्रश्रेष्ठानि द्रविणानि होन्द्रा
For Private and Personal Use Only
PEE
-