SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [..१३] गृह्यसूत्रे | तत्र पूर्वेषु चतुर्षु स्थालीपाकादुद्धृत्याग्नौ करणं । श्रग्निममीपे स्थालीपाकेन भुक्रशेषेण च पिण्डनिपरणं । पिण्ड पिढयज्ञकल्पस्य तेषु वि श्चमानत्वात्। तच्च साधितमेव प्राक् । उत्तरेषु चतुर्षु भोजनार्थादनादुद्धृत्य घृताकं कृत्वा पाणिहोमः । ब्राह्मणसमीपे शुक्रशेषमाचेण पिण्डनिपरणं । तेषु स्यालीपाकविध्यभावात् पिण्डपितृयज्ञकल्पप्राप्त्यभावाच्च । तत्रार्थलेखा च तदभ्युक्षणं च मक्कदाच्छिन्नावस्तरणं च लेखा त्रिरुदकेनेत्यादिपत्नीप्राशनान्तं भवति । श्रग्निं प्रत्येयादिति तु न भवति अन्यच्चातिप्रणयनादिसर्वं न भवति । ॥ ११ ॥ अभिमतेऽनुमते वा भुक्तवत्खनाचान्तेषु पिण्डान्निदध्यात् ॥ १२ ॥ शेषं निवेदितं ब्राह्मणैर्यद्यभिमतं स्वीकर्त्तुं श्रभिप्रेतं तदा तेभ्यो दद्यात्। अथ यद्यनुमतं मनुज्ञातं दृष्टैः सहोपभुज्यतामिति तदा स्वत्य ज्ञातिभिर्बान्धवेश्च महोपभुञ्जीत । मनुरपि । २४७ ज्ञातिभ्यः सत्कृतन्दत्वा बान्धवानपि पूजयेत् । इति । ततो अनाचान्तेषु पिण्डान्निदध्यात् पूर्वोक्तविधिना । श्रनाचान्तेवित्येव सिद्धे भुक्तवत्वितिवचनं भुक्तवत्खेव निदध्यात् । न मित्येवमर्थं । मनुना भोजनात् पूर्वं निपरणं विहितं तन्न कार्यमिति । अतो ज्ञायते । श्रन्यस्य मनुप्रोक्तस्याविरुद्धस्याङ्गस्येच्छातः करणमिति ॥ १२ ॥ आचान्तेष्वेके ॥ १३ ॥ श्राचान्तेषु निपरणमेके इच्छन्ति ॥ १३ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy