SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४० www.kobatirth.org आश्वलायनीये Acharya Shri Kailassagarsuri Gyanmandir [8. ७.१४] अर्घ्यं दत्त्वा दत्त्वा निर्णीतास्तदानीमेवानुमन्त्रयेत् । एवं सर्वेषामर्थे दत्ते संस्रवानशेषान् पात्रगतान् तानेकीकरोति । उत्तरे द्वे पाचे प्रथमपात्रे श्रसिञ्चतीत्यर्थः । एवं ग्टह्मविदः । ततस्ताभिरेकोकृताभिरद्भिः पुत्रकामश्चेन्मुखमनक्ति । न चेन्नानक्ति ॥ १३ ॥ नोइरेत्प्रथमं पात्रं पितॄणामर्घ्यपातितं । आवृत्तास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत् ॥ १४॥ ॥ ७ ॥ पितॄणमर्घ्यपातितं पितॄणामर्घ्यशेषा आपो यस्मिन् पात्रे एकीकृता एवम्भूतं प्रथमं पात्रं तस्माद्देशान्नेोद्धरेत् । समवनयनदेशान्नापनयेदाश्राद्धपरिसमाप्तेः । किमिति नोद्धरेत् । यस्मात् तस्मिन् पात्रे पितरस्तृतीयपात्रेण पिहितास्तिष्ठन्तीति ग्टह्मज्ञाः टतीयेन पात्रेण प्रथमपात्रस्यापिधानमिच्छन्ति । अन्ये तु तचेति तृतीयार्थे सप्तमी । तेनायमर्थः । श्रावृत्तास्तेन प्रथमेन पात्रेण पितरस्तिष्ठन्तीति । एतदुकं भवति । श्रपातितं प्रथमं पात्रं न्यग्विलं कुर्यात् । तच्च नोद्धरेत् श्रसमाप्तेरिति व्याचख्युः । शौनकाऽब्रवीत् शैौनकएवमवादीत शौनकग्रहणं तस्य पूजार्थं । न विकल्पार्थं ॥ १४ ॥ इति चतुर्थे सप्तमी कण्डिका ॥ ● ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy