SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३८ [४.७.१२] इतर पाण्यङ्गुष्ठान्तरेणोपवीतित्वादक्षिणेन वा सव्योपगृहीतेन पितरिदं ते अर्घ्यं पितामहेदं ते अर्घ्यं प्रपितामहेदं ते अर्घ्यमिति ॥ १० ॥ Acharya Shri Kailassagarsuri Gyanmandir याश्वलायनीये उत्तरत्रेोपवीतयेति विधानात्सर्वमिदं पित्र्यं प्राचीनावीतिना कार्यमित्युकं । अधुना उपवीतित्वादिति हेतुर्निर्देशादत श्रारभ्यावीग्गन्धमाल्यादिदानाद्यज्ञोपवीतिना कर्म कर्त्तव्यमिति ग्टह्मविदः । इतरस्य सव्यस्य पाणेरङ्गुष्ठान्तरेणार्घ्यं प्रयच्छेत् । उपवीतित्वाद्धेतोः । पित्र्ये तावत् प्राचीनावीतिना भाव्यमयं चोपवीती तस्मादित्यर्थः । येन पाणिना कर्म करोति दक्षिणेन वा सव्येन वा तस्मिन्नं से यज्ञोपवीते स्थिते प्राचीनावीती भवति । ततोऽन्यस्मिन्नंसे स्थिते उपवीती भवति । अत्र तूपवीतित्वात् प्राचीनावीतित्व सिध्यर्थं सव्यपाणिपिटतीर्थेन दातव्यमित्यर्थः । अथ वा सव्यपाणेः शिष्टगर्चितत्वाद्दक्षिणं पाणिं सव्येन पाणिना गृहीत्वा दक्षिणेनैव पाणिना उपवीत्येवार्थं प्रयच्छेत् । पित्रादित्रयाणं त्रिभिर्मन्त्रैः यथाक्रमं प्रयच्छेत् ॥ १० ॥ अप्पूर्वं ॥ ११ ॥ अर्घ्यं प्रदानात् पूर्वमन्या श्रप्यपो दद्यादित्यर्थः ॥ ११ ॥ ताः प्रतिग्राहयिष्यन् सकृत् सकृत्खधा अघ्यी इति ॥ ॥ १२ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy