________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६६
[ ३. ५. ४]
ओषधीनां प्रादुर्भावे श्रवणेन श्रावणस्य ॥ २ ॥
श्रोषधीनां प्रादुर्भावे मतिं श्रावणमासस्य श्रवणेन कर्त्तव्यं । श्रोषधीनां प्रादुर्भाव इतिवचनं यदा श्रावणे प्रादुर्भावो न स्यात् तदा भाद्रपदे श्रवणेन कर्त्तव्यमित्येवमर्थम् । दृष्टयपकर्षे कमीपकर्षशङ्का नैवास्ति । यदा भाद्रपदादत्कर्षो भवति तदापि कभीत्कर्षशङ्का नैव कार्य । वार्षिकमिति समाख्याबलात् वर्षासु क्रियत इति वार्षिकं । श्रावणभाद्रपदमामो हि न वर्षाऋतुः । श्रावणे प्रादुभीवाभावे कमीकरणशङ्काप्यन्येनैव निरस्ता । श्रवणेनेति श्रवणेन युक्ते काले इत्यर्थः । नक्षत्रेण युक्तः कालः [पा ०४.२.३] इत्यनेनाण् । 'लुविशेषे' [पा० ४.२.४] इति तस्य लुप् । 'नक्षत्रे च लुपि' [पा०२.३.४५] इति सप्तम्यर्थे तृतीया । नक्षत्रशब्देषु सर्वचैवं
योज्यं ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अश्वलायनीये
पञ्चम्यां हस्तेन वा ॥ ३ ॥
श्रचापि श्रावणस्येति सम्बध्यते. मध्यगतस्य विशेषाभावात्. प्रयोजनवत्त्वाच्च । श्रावणमासस्य पञ्चमी यदा हस्तेन युज्यते तदा वेत्यर्थः । इति कालत्रयमुक्तं ॥ ३ ॥
श्राज्यभागी हुत्वाऽऽज्याहुतीर्जुहुयात् सावित्यै ब्रह्मणे श्रद्धायै मेधायै प्रज्ञायै धारणायै सदसस्पतयेऽनुमत छन्दोभ्य ऋषिभ्यश्चेति ॥ ४ ॥
श्राज्यभागवचनं नित्यार्थं । द्रव्यानादेशादेवाज्ये मिद्धे श्रा
For Private and Personal Use Only