SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२. ४..] ग्टह्यसूत्रे। १२५ अष्टका हि चतस्त्रः स्युः पूर्वाहानि तथैव च । द्रव्यत्रयत्वाद्वैकत्वान्न यथासङ्ख्यसम्भवः ॥ प्रत्यष्टकं हि पूर्वद्युस्त्रीणि द्रव्याण्यथापि वा। *अपूपद्रव्यमेकं वा नान्या व्याख्यानकल्पना ॥ ५ ॥ उदीरतामवर उत्यरास इत्यष्टाभिर्खत्वा यावतीभिवी कामयीत ॥६॥ यावतीभिर्वाऽधिकाभिरेवञ्जातीयकाभिः पितृलिङ्गकाभिः कामयीत कामयेत तावतीभिर्जुहुयात्। एतदुकं भवति। पिण्डपितृयज्ञविधाने नेमाधानान्तं कुर्यात्. चरुश्रपणे विशेषः उक्तः । ततो ब्राह्मणपच्छौचाद्याच्छादनप्रदानपर्यन्तं पार्वणवत् कृत्वा ओदनादिभ्यस्त्रिभ्योऽन्नमुद्धृत्य घृतानं कृत्वाऽनुज्ञाप्य अग्नौ करणमन्त्रयोः स्थाने उदीरतामवर उत्पराम इत्यष्टाभिश्चतुर्दशभिवी हुत्वा मेक्षणमनुप्रहत्य ब्राह्मणेभ्योऽन्नदानादिशेषनिवेदनान्तं पार्वणवत् कृत्वा भुक्तवत्स पिण्ड पितृयज्ञवनिनयनादिपात्रोत्सर्गान्तं कृत्वा ततः श्रादुशेषं समापयेत् इति ॥ ६ ॥ अथ श्वोभूतेऽष्टकाः पशुना स्थालीपाकेन च ॥ ७॥ अथेत्यानन्तर्यार्थः । श्वोभूतेऽष्टम्यामित्यर्थः । या अष्टकाः कार्या इत्युक्तास्ताः श्वभूते पना स्थालीपाकेन च कार्या इत्यर्थः । अथाष्टका इत्येतावत्युच्यमाने अथशब्दसम्बन्धात् पूर्वाश्चाष्टकाः * अयूपद्रव्यमेवैकमिति सं० पु० पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy