SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० चावलायनीये [२. ३. २] हविःशेषं प्राश्नाति वृष्ण । हामशेषं समापयेत् । एतत् प्राशनमाग्रयणदयेऽपि भवति। मौकयार्थमिदमत्र लिखितं। इदं चाग्रयणं यदा वर्षस्य हप्तः स्यात् तदा भवति। शरदोत्यर्थः । तथा च वचनं 'शरदि ब्रीहिभिर्यजेत' इति । तत्र च पर्वणि भवति । यवाग्रयणञ्च *न कार्य । श्यामाकैस्तु प्रस्तरं कुर्यात् नाग्रयणं. दृष्टत्वात् । अपि वात्र समानतन्त्रं कुर्यात् सौम्यं चरुं । अस्य च नामधेयेन होमः । आग्रयणस्थालीपाक इत्यत्र च विशेषणसमासः आग्रयणं चामो स्थालीपाकश्चेति। तत्र स्थालीपाकग्रहणस्येदं प्रयोजनं। अनाहितामेः स्थालीपाक एव कार्यः । 'नाग्निहोत्रों वै नानादयित्वा' इत्ययं पक्षः कार्य इति ॥ ५॥ इति द्वितीये द्वितीया कण्डिका ॥ ॥ - मार्गशीयां प्रत्यवरोहणं चतुर्दश्यां ॥१॥ मृगशीर्षण युक्ता मार्गशीर्षो. पौर्णमास्यामिति वर्त्तते । मामीप्ये चेयं सप्तमी। यथा 'अथाग्नीषोमीयेण चरन्युत्तरवेद्यां' इति । तेनायमर्थः । मार्गशीर्थाः पौर्णमास्याः समोपे या चतुर्दशी तस्यां प्रत्यवरोहणं नाम कर्म कर्त्तव्यमिति ॥ १ ॥ . पौर्णमास्यां वा॥२॥ मार्गशीयामिति वर्तते । अत्र त्वधिकरणे सप्तमी। तेन मार्गशीव्यां पौर्णमास्यां वेति पूर्वेण सह विकल्पः। भाष्यकारस्त्वित्थं * नेति आदर्श पु० नास्ति । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy