SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रह्मसूत्र। श्रपयित्वेतिवचनं पुरोडाशस्यौपासने धर्मवच्छपण)। स्थालीपाकस्य तु तन्त्रप्राप्त्यैवोपासने अपणं सिध्यति । नन्वन्यस्यापि सिध्यति । नियमार्थं तर्हि । तेन धानासतलाजादीनां लौकिकाग्नौ सिद्धानामेवोपादानं भवति । एतावांस्तु तेषां संस्कारः। श्राज्यपर्यग्निकरणवेलायां तैः महाज्यस्य पर्यग्निकरणं भवेत्। यदा आज्यस्य उत्पवनमात्रमेव क्रियते तदा तेषां त्रिः प्रोक्षणं भवेत् । अवज्वलनं *वा दधिवत् । एकस्मिन् कपाले संस्कृतः पुरोडाश एककपालः पुरोडाशः । तमुद्दास्याज्ये निमग्नं कुर्यात् व्यिक्तपृष्ठं वा कुर्यात् । चरं चतसृभिः प्रत्यचं हत्वा दक्षिणेन पाणिना एककपालं जुहुयात् मन्त्रेण । उपस्तरणभिघारणे तु सव्येन करोति । दक्षिणस्याऽन्यत्र व्यापृतत्वात् । दक्षिणाङ्गपरिभाषा च दयोः प्राप्तयोर्नियामिका न तु प्रापिकेत्यु त । अस्य सर्व हुतत्वात् अवदानधर्मी लुप्तः । सर्वहुतत्वं तु वक्ष्यामः ॥ ४ ॥ अविप्लुतः स्यादाविपृष्ठो वा ॥५॥ व्याख्यातमेतत्॥ ५ ॥ मा नो अग्नेऽवसृजो अघायेत्येनमाशयेनाभिजुहोति॥६॥ एनं पुरोडाशं । एनमिति वचनमखण्डितोऽयं त इति ज्ञा * वा दधिवदित्यस्य स्थाने पूर्ववदिति सं० पु. पाठः । + व्यक्तएडमि त्यस्य स्थाने प्रकट एष्ठमिति सं० पु. पाठः। + अवदानमर्थ लुप्तमिति सं० यु० पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy