________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
[१. १४. ४]
हाभ्यां. नेजमेष इति तिसृभिः. प्रजापते न त्वदेतान्यन्य इति च ॥३॥
जड्यादिति शेषः। अथशब्दोऽन्यस्मिन्नपि काले भवतीदं कर्मति ज्ञापनार्थः । कस्मिन्. षष्ठाष्टमयोसियोः। शास्त्रान्तरे चायं कालो विहितः। अग्निमुपसमाधायेत्यादि ग्रहप्रवेशनीये व्याख्यातम् । आज्यभागान्तं कृत्वा धाता ददातु दाशुष इत्यादिभिरष्टावाज्याहुतीर्जुहुयात् ॥ ३॥
अथास्यै युग्मेन शलाटुग्लसेन व्येण्या च शलल्या विभिश्च कुशपिचूलैरूज़ सीमन्तं व्यूहति भूर्भुवः स्वरामिति त्रिः॥ ४॥
अस्यै अस्याः। युग्मेन समेन । केन. शलाटुग्लमेन तरुणफलसंघातेन । शलाटुरिति अपक्कानां फलानां समाख्या। ग्लप्स इति स्तबक उच्यते। औडुम्बरस्तबकेन. शास्त्रान्तरे दृष्टत्वात्। तदभावेऽन्येन । त्रीण्येतानि यस्याः सेयं णो शलली। एतः शुक्ल इत्यर्थः । 'वादनदात्तात् तोपधात् तो नः' [पा० ४.१.३६] इति डीप्. तकारस्य नत्वं च। ततो 'रषाभ्यां नो ण:' [पा ० ८.४.१] इति णत्वं । कुशपिञ्जलैः कुशतरुणैः। एतैरेकीकृतेर्ललाटकेशयोः सन्धिमारभ्य ऊर्ध्वं सीमन्तं व्यूहति मन्त्रण. आमूर्द्धप्रदेशात् केशान् पृथक् करोतीत्यर्थः। एवं त्रियूंहति । मन्त्रावृत्तिरुक्ता ॥
॥
४
॥
For Private and Personal Use Only