SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१.११.११] गृह्यसूत्रे | वेतिवचनं ऊर्ध्वशिरसः संज्ञपनं मा भूदित्येवमर्थं । ततः कर्ता पुरा नाभेरवीङ्गाभेर्दक्षिणतो नाभेरासीनो वपास्थानं ज्ञात्वा तत्र तृणमन्तर्द्धाय तिर्यक् छित्त्वा वपामुत्खिदेत् उद्धरेत् । वपास्थानं तु दक्षिणस्य पार्श्वस्य विविक्तप्रदेशः यदि प्राक्शिराः सञ्ज्ञप्तः तथा मति दक्षिणं पार्श्वमुत्तानं कृत्वा ढणान्तर्द्धानादि कुर्यात् । ततो वपामवदाय श्रवखण्ड्य | पुनर्वपाग्रहणं कृत्स्नावदानार्थं तेनान्येस्ववदानेस्वत्नानि ग्रहणानि भवन्ति । ततो वपापणीभ्यां परिग्टह्याद्भिरभिषिच्य प्रक्षाल्य शामित्रे प्रताप्य । प्रतापनं तु धर्ममात्रं. श्रपणस्योत्तरच विधानात् । ततः शामित्रस्योत्तरतो गत्वा - ऽग्रेणैनमोपासनमग्निं वपां त्वाऽस्य दक्षिणत आसीनः श्रपयित्वा श्रपयिता तां वपामभिघार्य. वर्हिषि लक्षशाखासु निधाय उभावष्यग्नो यथागतं परोत्य जुहुयात्. श्रमुभै स्वाहेति । वपा पणकाले आज्येनावसिच्याऽवमिच्य श्रपयति. 'तामध्वर्युः स्रुवेणाभिघारयन्नाह' इति श्रुतेः। यद्यपि 'चतुरवत्ती यजमानः स्यादथ पञ्चावत्तैव वपा' इति श्रुतेर्वपा पञ्चावत्ता भवति । श्रज्यं हिरण्यशकलं aur हिरण्यशकलमाज्यमिति हिरण्याभावे तु द्विराज्यन्ततो वपा पुनर्द्विराज्यमिति ॥ १० ॥ ૧ एतस्मिन्नेवाग्नौ स्थालीपाकं श्रपयन्ति ॥ ११ ॥ एतस्मिन्नेवोपासने एवाग्नौ पश्वङ्गत्वेन पदेवतायै स्थालीपाकं श्रपयन्ति । बहुवचनं कर्त्तुरनियमार्थं । एतस्मिन्नितिवचनं शामिचे मा भूदित्येवमर्थं इतरथा शामित्रस्य श्रपणार्थत्वात्तस्मि न्नेव स्यात्॥ ११॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy