SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. ७. १] ग्टह्यसूत्रे। २५ मम भायी भव अहं तव पुरुषो भवामोत्येवंरूपो विवाहो गान्धर्वसंज्ञः । कन्यापित्रे धनदानेन यो विवाहः स आसुरमंज्ञः । सुप्तेभ्यः प्रमत्तेभ्योऽसावधानेभ्यः कन्यामपहृत्य यो विवाहः स पिशाचमंज्ञकः। युद्धं कृत्वा कन्यामपहत्य यो विवाहः स राक्षससंज्ञकः । एवमेतेऽटा विवाहाः । तत्र पूर्वेषु चतुर्षु पूर्वः पूर्वः प्रशस्तः । उत्तरेषु चतुर्षु उत्तरोत्तरः पापीयान् । तत्र पूर्वा ब्राह्मणस्य। दूतरयोः प्रतिग्रहाभावात् आर्खियाभावाच्च । गान्धर्वः क्षत्रियस्य. पुराणे दृष्यत्वात् । राक्षसश्च तस्यैव. युद्धसंयोगात्। आसुरस्तु वैश्यस्य. धनसंयोगात् । इतरे त्रयोऽनियताः ॥ १॥ इति प्रथमे षष्ठी कण्डिका ॥०॥ अथ खलूच्चावचा जनपदधर्मा ग्रामधीश्च तान्विवाहे प्रतीयात् ॥ १॥ अथशब्दोऽधिकारार्थः। यदक्ष्यते तदिवाहे वेदितव्यमिति । *खलतः । उच्चावचग्रहणं कथं। एते जनपदधर्मादयो नानाप्रकाराः क्रियेरन् नैकेन की समुच्चेरनिति। जनपदधर्मा देशधाः । ग्रामशब्देन नगरमुच्यते। धर्मशब्दादेव द्वितीयानिर्देशे सति अन्वये सिद्धे तानितिवचनं कुलधर्मा अपि कार्या इत्येवमर्थ । तान् तादृशानित्यर्थः । विवाहाधिकारे पुनर्विवाहग्रहणं कृत्स्ने विवाहे यथा * खलु रुक्तः इति सं• पु० पाठः । परन्तु खलूक्तरिति साधुः। For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy