SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रोड़पत्राणि । विधिदृष्टेन कर्मणा । श्राज्यधारामविच्छिन्नां जुहुयात् सार्वकामि कीम् ” – इति । - ६ २६९पृष्ठे ३पको निवेश्यं । " सूत्रद्वयं वैतत् - 'पूर्णपाचोदक्षिणा' - इति, 'तं ब्रह्मणे दद्यात् - इति च। तत्र, 'पूर्णपात्रोदक्षिणा' - इत्यनेन पूर्णपात्रं दक्षिणा भवति कर्म्मणाम्, अनुच्यमानायां दक्षिणायाम् - इत्युच्यते । कथं ज्ञायते ? । अनुच्यमानायां दक्षिणायां पूर्णपात्रादिका दक्षिणा भवति, इति कर्म्मप्रदीपवचनात् । --- 'तं ब्रह्मणे दद्यात् ' - इत्यनेन ब्रह्मणे दक्षिणायादानमुपदिश्यते । तदनेन तत्शब्देन दक्षिणैव परामृश्यते न पूर्णपात्रम् । कस्मात् ? । सन्निहिततरत्वात् दक्षिणायाः, व्यपेतत्वाच्च पूर्णपात्रम्य । श्रर्थवत्वाच्च । दक्षिणादानेन हि नः प्रयोजनं न पूर्णपात्रदानेन । लिङ्गव्यत्ययस्तु भवताऽपि समानः । ' ब्रह्मले दक्षिणा देया' - इति कात्यायनवचनाचैतदेवं प्रतिपत्तव्यम् । स खल्वस्पष्टानां गोभिलोकानां प्रतीपवत् स्पष्टमुपदेष्टा - इत्यवोचाम | २७० पृष्ठे १२ पंक्तौ निवेश्यं । श्रथ वा । एकेाब्रह्मैव ऋत्विगिति ब्रह्मणे दक्षिणादाने हेतुवचनमेतत् । हाताप्यस्त्यन्यऋत्विगित्याशङ्कायामुत्तरं सूत्रं प्रवर्त्स्यति । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy