SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७ का.] श्राद्धकल्पः । "गायत्रीमात्रमारोऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयो” । इतिगायत्रीव्रतमात्र सहप्रवचनापरनामधेयं येन चीण सचैव मुच्यते॥१४॥ चिणाचिकेतः॥१५॥ चिणचितोऽध्वयंशाखायां प्रसिद्धः। एतद्वतमपि, तद्योगात् पुरुषोऽपि त्रिणचिकेतः ॥ १५॥ त्रिमधुः ॥ १६ ॥ त्रिमधु अध्वर्युवेदभागस्तद्वतच्च। तद्योगात् पुरुषोऽपि त्रिमधुः ॥१६॥ चिसुपर्णः ॥ १७॥ सुपर्णमन्त्रास्तैत्तिरीयके प्रसिद्धवाः। बड़वां वेदभागश्चैवमुच्यते । तद्प्रतञ्च । तद्योगात् पुरुषोऽपि ॥ १७॥ पञ्चाग्निः॥१८॥ पञ्च-पवनपावनदक्षिणगार्हपत्याहवनीयाश्रमयोयस्य, श्रमीपञ्चाग्निः। तथा च हारीतः । "पवनः पावनस्त्रेता यस्य पञ्चामयोग्टहे। सायं प्रातः प्रदीप्यन्ते सविप्रः पत्रिपावनः" । इति। केचिदेतत्सूत्रम,-'त्रिणाचिकेतः' इत्यतः पूर्वं पठन्ति ॥१८॥ स्नातकः ॥१९॥ विद्यास्नातकोत्तानातकोविद्याव्रतस्नातकश्चेति त्रिप्रक्रारोग्टह्यसूत्रोक्तः ॥ ॥ १६ ॥ मन्त्रब्राह्मणवित्॥ २० ॥ मन्त्रब्राह्मणात्मकसमग्रवेदवेत्ता। केचिदेतत् सूत्रदयं न पठन्ति ॥२०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy