________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः। षष्ठी काण्डिका ।
अथ तृप्तीः ॥१॥ वक्ष्यामः, इति सूत्रशेषः ॥ १ ॥ तत्र इविर्विशेषात् दप्तिविशेषमाह,
ग्राम्याभिरोषधीभिर्मासं तृप्तिः॥२॥ ग्राम्याभिामे भवाभिः। श्रोषधीभिः,
"ब्रीहयः शालयोमुगागोधूमाः सर्षपास्तिलाः ।
यवाश्चोषधयः सप्त विपदोघ्नन्ति धारिताः”। इत्युक्तलक्षणाभिः, फलपाकान्ताभिवा, मासं व्याप्य पितृणणं बप्तिर्भवति। तन्त्रान्तरे ग्राम्यतिलनिषेधोऽस्मयतिरिक्तविषयः ॥ २ ॥
तदलाभे पारण्याभिः ॥३॥ तामां ग्राम्याणामोषधीनामलाभे, श्रारण्याभिरोषधीमिः, 'मासं तृप्तिः', इत्यनुषज्यते। अनुकल्पोऽयम् ॥ ३ ॥
मूलफलैरद्भिवी ॥ ४॥ मासं सृप्तिः, इत्यनुवर्तते । मूलैः,
"कशेरुः कोविदारश्च तालकन्दं तथा विसम् ।
तमालं शतकन्दच्च कहारं शीतकन्दकम्” । इत्यादिभिर्बहुलं तन्त्रान्तरेषूपदिष्टः। फलैः,
"विल्वामलकम्मृद्दीकापनसाम्रातदाडिमम् । भव्यं यानेरताक्षोटं खजूराम्रफलानि च”।
For Private and Personal Use Only