SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः। पञ्चमी काण्डिका । अथ धमाः। अथेदानीमस्मिन् कर्मणि यजमानस्य भोक्तश्च यथासम्भवं धाःनियमाः, वर्तिव्यन्ते, इति सूत्रशेषः ॥ १ ॥ तदहस्तत्परः शुचिरक्रोधनोऽत्वरिताऽप्रमत्तः सत्यवादी स्यात् ॥ २॥ यस्मिनहनिश्राद्धं भवति, तदहस्तस्मिन्नहनि । तत्परः तदाचरण चतुरः । चिः वाह्याभ्यन्तरीचवान् । वाह्यं शौचं स्नानादि, श्राभ्यन्तरं मनःप्रसादादि। अक्रोधनः-यः क्रोधं करोति, स क्रोधनः, स न भवतीत्यक्रोधनः। अत्वरितः, त्वरा संजाता यस्य मोऽयं वरितः, म न भवतीत्यत्वरितः । अप्रमत्तः प्रमादरहितः। प्रमादोऽनवधानतेत्यनर्थान्तरम् । सत्यवादी, सत्यं वदितुं शीलं यस्य, स भण्यते । 'स्थात्,' इति सर्वत्र संबन्धनीयम् ॥ २ ॥ अध्वमैथुनश्रमस्वाध्यायान् वर्जयेत् ॥ ३॥ तदहरित्येव । श्रध्वनावर्जनमध्वगमनाभावः । खाध्यायोवेदाध्ययनम् ॥ ३॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy