SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४६ श्राडकास्पः। [४ का.] अथापि स्यात्,-'आवह पिढन्'-दूति, 'एत पितरः' इति चैवमादिकमपि प्रत्यक्षमुपदिश्यते । कथं तत्रानुमानिकस्य नान्दीमुखपदस्य प्रयोग: ?। नायं दोषः । पार्वणे हि तत् प्रत्यक्षमुपदिश्यते, नत्वाभ्युदयिके । चोदकः खल्वत्र तत् प्रापयति । तस्मात् तदप्यानुमानिकमेव, इति न किञ्चिदनुचितम् । सूत्रव्यं वैतत्,-'नान्दीमुखाः पितरः', दति, 'प्रीयन्तामित्यक्षय स्थाने' इति च। तत्रापि, 'नान्दीमुखाः पितरः' इति इयीमतिः स्यात् ;-नान्दीमुखानां वा पिढत्वम्, पितृणं वा नान्दीमुखवमनेन सूत्रेणोच्यते, इति । तत्र, प्रथमस्तावत् पक्षो न सम्भवति। कुतः ?। यतो नो खल्वपि ज्ञायते,-कदमे नान्दीमुखानाम् ? इति। यद्धि नैव जायते, कथं तदनद्य विशेषस्य विधिर्भविष्यति । अथ, तदपि विधास्यसि, मेन्स्यसि तर्हि वाक्यम्। अन्यत् खलु रूपमस्य विधीयमानस्य, अन्यच्चानूद्यमानस्य स्यात् । अथ मन्यसे, तन्त्रान्तरसिद्धान् नान्दीमुखाननूद्य पिटत्वममीषां विधास्यते, इति। तदपि नास्ति । कस्मात् ? । अन्यशास्त्रसोतस्यान्यत्रानुपयोगात्। स्वशास्त्रविरोधश्चैवमापत्स्यते । तच्च वक्ष्यामः । विधिमितं पिटलमपि किमिहाभिप्रेयते, तदपि वक्तव्यम् । तच्च यदि प्राप्तपिटलोकत्वं, यदि वा परम्परया जनकत्वम्, उभयथापि प्रज्ञातमेव तदिति न पुनर्विधातव्यं भवति। पितृणामिव श्राद्धोद्देश्यत्वं विधीयते, इति चेत्, नैषा साध्वी कल्पना भवति। लक्षणाशब्दः खल्वेवमसी स्यात् । श्रुतिलक्षणाविषये च श्रुतियायसीत्याचक्षते । विधी च न परः शब्दार्थस्तान्त्रिकानामनुमतः । तस्मात् पारिशेष्यात् चोदकप्राप्तान पिटननूद्य For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy