SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३ का.] श्राद्धकल्पः। इति व्यामाधुक्तकल्पे बोद्धव्यम्। तत्रैव कल्ये मपिण्डीकरणस्य तत्रानन्तभीवात् । "दादशप्रतिमास्थानि श्राद्यं पाएमासिके तथा । मपिण्डीकरणञ्चैव इत्येतत् श्राद्धषोड़शम्” । इति छन्दोगपरिशिष्टोत तु कल्ये षोड़शश्राद्धेम्वेव मपिण्डीकरणमन्तभवति । पूर्वकल्ये, द्वादशाहे क्रियमाणमूनमासिकमिति द्रष्टव्यम् । तथा च गोभिलपरिशिष्टम् । ___मरणात् द्वादशाहे स्यान्मास्यूने वोनमासिकम्” । इति । गोभिलस्यैतदितिमदनपारिजातः । तदस्माकं दावयेतो कल्या भवतः। दयोरेवास्मत्परिशिष्टानुमतत्वात्। यदा त्वपक्कय्य षोड़शश्राद्धानि सपिण्डीकरणच करोति, तदा मपिण्डीकरणात् परं पुनरपि षोडशश्राद्धानां यथाकालमनुष्ठानं कर्त्तव्यं प्रेतशब्दोल्लेखस्तु तच न करणीयः । तदाह कात्यायनः । “दादशाहेऽथ सवाणि संक्षेपेण समापयेत्। तान्येव तु पुनः कुर्यात् प्रेतशब्द न कारयेत्”। इति। प्रेतशब्दकरणनिषेधात् द्वादशाहसपिण्डीकरणात् परं तदानीमेव प्रेतत्वनिवृत्तिरवगम्यते । कालमाधवीये गोभिलपरिशिष्टम् । “यस्य संवत्मरादाक् विहिता सुमपिण्डता । विधिवत्तानि कुर्चीत पुनः श्राद्धानि षोड़श। इति। गोभिलस्यैतदिति माधवाचार्यः । तत्रैव गालवः । "अवाक् संवत्मराद् यस्य सपिण्डीकरणं कृतम्। घोड़शानां द्विरावृत्तिं कुर्यादित्याद गौतमः" । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy