SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २ का.] श्राद्धकल्पः। ६७ अस्तु स्वधेत्युक्ते स्वधानिननीये धारा दद्यादूर्जवहन्तीरित्युत्तानं पाचं कृत्वा ॥ ३५॥ अस्तु स्वधेति प्रत्येकं ब्राह्मणैरुने, स्वधानिनयनीये पूर्वोक्तास्तृतदर्भ । जात्यभिप्रायेणैकवचनम् । स्वधानिनयनीयेषु, इत्यर्थः । क्वचित्तथैव पाठः । रघुनन्दनस्तु ‘खधानिनयने'-दूति पठित्वा 'खधावाचने कृते'इति व्याचष्टे । तदशब्दमित्युतम् । तत्पाठेऽपि, अधिकरणे ल्युटा दर्भ एवार्थः । तदेतेषु दर्भेषु उदकधारां दद्यात्, ऊज वहन्तीरिति मन्त्रेण । किं कृत्वा ? । यत् पात्रं पूर्व संस्रवान् समवनीय न्युज कृतं, तत् पात्रमुत्तानमूर्द्धमुखं कृत्वा । तथाच कात्यायनः । "प्रार्थनासु प्रतिप्रोत साखेव द्विजोत्तमैः । पवित्रान्तहितान् पिण्डान् सिञ्चदुत्तानपात्रकृत्" । इति । भट्टनारायणेऽपि, उत्तानपाचवदिति परिषेचनक विशेषणतयेव व्याचष्टे। यच्च, 'चोत्तानपात्रकृदिति यथाश्रुतदर्शनात् परि चनकर्तृविशेषणतया भट्टेन यड्याख्यातं तद्गोभिलश्राद्धसूचादर्शनात् । तथाच प्रागुनपरिषेचनसूत्रानन्तरं गोभिलः । उत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्यादिति’-दति रघुनन्दनेनोक्तम् । तदसङ्गतम् । यस्मादुत्तानं पात्रं कृत्वा, इत्यस्य परसूत्रप्रतीकत्वे खल्वेतदेवं स्यात् । पूर्वसूचप्रतीकत्वे पुनर्नवं भवति। न चैतस्योत्तरसूत्रप्रतीकत्वे किञ्चित् प्रमाणमस्ति । कात्यायनस्त्वे तत्सूत्रप्रतीकत्वमेव तस्य स्पर ज्ञापयति । स खल्वस्पष्टानां प्रदीपवत् स्पष्टमुपदेष्टा । तस्मादुत्तानं पात्रं कृत्वेत्येतदेतत्सूत्रप्रतीकमेव, नोत्तरसूत्रप्रतीकमिति स्लिव्यते । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy