________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
श्राद्धकरूपः।
मातामहानां खधावाचनसूत्रणमनर्थकं स्यात् । “मातामहानाञ्चैवम्" -इति हि सूचितम् । 'अघोराः पितरः सन्तु'-इत्येषा तु प्राथना उभयत्रैव कर्त्तव्या। गोत्रं नोवर्द्धताम्'-दति त्रिवपि पक्षेषु । सा खल्वियमाशीःप्रार्थना पिञ्चे दक्षिणामुखेन प्राचीनावीतिना कर्त्तव्या । "पिण्डपिढयज्ञवदुपचारः" इत्यनेन सर्वत्र तथाऽवगतेः ।
"दत्त्वाऽऽशीः प्रतिग्टहीयात् दिजेभ्यः प्राङ्मुखोबुधः ।
अधोराः पितरः सन्तु मन्त्वियुक्तः म तैः पुनः" । इति मत्स्यपुराणवचनं तदुप्रयोगविषयम् । समुच्चयमुपपिपादयिषुवाचस्पतिस्तु,
“दक्षिण दिशमाकान् याचेतेमान् वरान् पिन्”। इति मनुवचनं मत्स्यपुराणवचनञ्च पूतिं पश्यन् , 'पूर्वाभिमुखोदक्षिण दिशं मनसा पश्यन् कुर्यात्'-दूति कल्पयन् वाचोयुक्त्यनभिज्ञ एव । दक्षिण दिशम्'-दत्यनन्तरश्च मनुना दातारो नोभिवर्द्धन्ताम्' -इति पठितं, नत्वघोराः पितरः सन्तु इति । मत्स्यपुराणे तु,
"अथ पुष्याक्षतान् पश्चादक्षय्योदकमेव च । सतिलं नामगोत्रेण दद्याच्छत्या च दक्षिणाम् । * * * * * * * * * * ततः खधावाचनिकं विश्वदेवेषु चोदकम् । दत्त्वाऽऽशीः प्रतिग्रहीयात् दिजेभ्यः प्रामुखोबुधः । अघोराः पितरः सन्तु मन्त्वित्युक्तः पुनईिजैः । गोत्रं तथा वद्धतां नस्तथेत्युक्तश्च तैः पुनः । दातारोनोऽभिवईन्तामिति चैवमुदीरयेत्” ।
For Private and Personal Use Only