SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राडकल्पः। [२ का.] समुच्चयवादिनान्वियमनुपपत्तिरवर्जनीया स्यात् । 'मन्त्रितं पृथिवीत्येवम्'-दत्यनन्यगतेर्वचनात्, इत्यास्तां विस्तरः । सोऽयं न्यायलभ्योऽर्थः, इति कृत्वा न खल्वच भवान् सूत्रकारः परिवेशनमन्त्रस्य सूत्रयाञ्चकार, इति लिव्यते ॥०॥ २२ ॥०॥ वैष्णव्यची यजुषावाऽङ्गुष्ठमन्नेऽवधाय ॥ २३ ॥ वैष्णवी ऋक्,-'दूदं विष्णुर्विचक्रमे-इत्यादिका । यजुः,-'विष्णो ! हव्यं रक्षस्ख'-इति केचित्। 'कृष्ण! कव्यमिदं रक्षस्व मदीयम्'इति केचित् । उभयत्रैव, देवे 'हव्यम्'-दूति, पिये च 'कव्यम् ,इति पठन्ति । तदत्र भवन्तो भूमिदेवाः प्रमाणम्। वाशब्दाविकल्पार्थः । अङ्गुष्ठमन्नेऽवधाय निधाय । इदच्चाङ्गुष्ठनिवेशनमन्नसंस्कारार्थतया कुशमयबाह्मणपनेऽपि करणीयं भवति । स्मरन्ति च । "निरङ्गुष्टञ्च यत् श्राद्धं वहिर्जानु च यत् कृतम् । वहिर्जानु च यद्भुक्तं सर्वं भवति चासुरम्"। इति। अन्ने, दूति वचनाचान एवाङ्गुष्ठावधानं न जलादाविति द्रष्टव्यम्। अस्मिन्नवसरेऽन्ने तिलविकरणं करणीयम् । कथं ज्ञायते ? । "त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः" । इति । "प्राचीनावीतमुदकं तिलाः सव्याङ्गमेव च। * * * * * * * * * वालभानि प्रशस्तानि सदैवेतानि पैसके” । इति च कञ्चित् प्रयोगमनारभ्य सामान्यतः स्मरणात् । “यद्ह्याय For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy