SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६५२ www.kobatirth.org [ २ का. ] पक्षमभिप्रेत्यैव इयमावृत् सूचिता । दैवेऽपि यावत् शक्यं पिटदृष्टं करिष्यामः । ये चात्रत्वामिति मन्त्रस्तु देवे न शक्यते कर्त्तुम् । श्रसमवेतार्थत्वात् । तस्मात् कात्यायनेोक्तयैव रीत्या देवे उत्सर्गवाक्यं रचयितव्यं भवति ॥ ० ॥ १५ ॥ ० ॥ श्रप उपस्पृश्यैवमेवेतरयेाः ॥ १६ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्रद्धकल्पः । * अप उदकमुपस्पृश्य स्पृष्ट्वा एवमेव पूर्वीक्रियैवादृता इतरथेोः पितामहप्रपितामहयोरप्ययं ददाति, -- इति गतेन संबन्धः । मातामहादीनामपि "मातामहानाञ्चैवम् " - इति वचनात् सर्व्वमेवैतत् कर्त्त - व्यम् । तदिदमुत्सृष्टमर्घ्यमिदानीं ब्राह्मणेषु प्रतिपादयितव्यं भवति । पित्रर्थं खल्वेतदुत्सृष्टं पिटस्थानीया मे ब्राह्मणा भवन्ति । उत्तरत्र संस्त्रवमवनयनस्स्रुचणाचैवमवगच्छामः । संस्त्रवशब्दो हि "मंत्रवान् प्रामाति” - इत्यादौ स्वादिपाचलग्नप्रतिपादितावशिष्टाज्यादिद्रव्यवचनादृष्टः । स इहापि ग्रहीतव्यो भवति । श्रविरोधात् । प्रतिपादनप्रकार माह कात्यायनः । “गोत्रनामभिरामन्त्य पितृनर्थं प्रदापयेत् । ** * ** ज्येष्ठोत्तरकरान युग्मान् कराग्राग्रपविचकान् । कृत्वाऽर्घ्यं संप्रदातव्यं नैकैकस्याच दीयते" | दूति । तदत्रादौ ' गोत्रनामभि:' - इत्यादिना श्रर्थदानमुपदिश्य, परतः - 'ज्येष्ठोत्तरकरान् - इत्यादिना तत्प्रतिपादन प्रकारोऽभिहितः । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy