________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
588
एह्यासंग्रहः ।
[२]
"अथ जन्यानामेकोध्रुवाणामपां कलमं पूरयित्वा सहोदकुम्भः प्रावृतो बाग्यताऽग्रेणाग्निं परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते"-दति सूत्रोक्तमुदकुम्भधारिणेऽवस्थानं विशिनष्टि,
गन्धमाल्यैरलङ्कृत्य सकुम्भो वाग्यतः शुचिः ।
धारयेत् त्रिषु वर्णेषु प्रावृतांसा दिजोत्तमः ॥ २६ ॥ गन्धमाल्यैरुदकुम्भमलङ्कृत्य सकुम्भो नियमितवचनः शुचिः, प्रावृतांसः -प्राकृतौ अंसौ यस्य मोऽयं प्रावृतांसो वस्त्राच्छादितस्कन्धयःइत्येतत् । द्विजोत्तमः-उत्तमो दिजः, त्रिषु वर्णेषु धारयेत्,-ध्रुवा अपः, इत्यर्थः ॥
यदा निष्कामयेत् कन्यां वरः पाणिं जिघृक्षयन् ।
अग्निं प्रदक्षिणं कृत्वा कटस्तीर्ण पदं व्रजेत् ॥ २७॥ यदा पाणिं ग्रहीय्यन् वरः कन्यां ग्टहान्निष्कामयेत्, तदा सा कन्या अग्निं प्रदक्षिणं कृत्वा कटस्तीर्ण कटविशिष्टं स्तरणयुक्तं पदं स्थानं व्रजेत्। एतदनेनोक्तं भवति । गच्छन्ती कन्या अग्निं प्रदक्षिणं कृत्वा कटमास्तृतकुशपर्यन्तं नयेत्, इति । तथाच गोभिलसूत्रम् । “वहिषोऽन्तं कटान्त प्रापयेत्”-इति । अथवा । पदं कटस्तीर्णं कृत्वा-कटे पदं मंस्थाप्य व्रजेदित्यर्थः ॥
पदा प्रपद्य पन्यानं पतियानं संजपेद्दधुः । वरो वाऽत्र जपेन्मन्त्रमाकटान्तादिति स्थितिः॥२८॥ पदा चरणेन प्रपद्य प्राप्य, कटमित्यर्थात्। बधूश्चरणेन कटप्राप्तेरनन्तरं
For Private and Personal Use Only