SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ प्र.] ह्यासंग्रहः। ८४१ कादपिभावे तिङ्) प्रशंसा क्रियते, प्राचार्येण, इति वाक्यशेषः । तथा च गोभिलसूत्रम्। “नग्निका तु श्रेष्ठा" इति । लिष्टमन्यत्॥ विवाहे स्त्रीलक्षणविदोऽलाभे नवपिण्डान् कृत्वा स्त्रीलक्षणं परीक्षितव्यमित्याचार्येणोकम्। तथा च गोभिलसूत्रम् । “तदलाभे पिण्डान्"। “वेद्याः सीताया हुदागोष्ठाच्चतुष्पथादादेवनादादहनादीरिणात्” । सर्वेभ्यः सम्भावें नवमम्' इति । “पूर्वेषां चतुर्ण ग्रन्तीमुपयच्छेत्” इति च । तत्र, वेदिपिण्डादिग्रहणे फलार्थवादमाह, वेदिपिण्डात् क्रियावती सीतायाः फलते कृषिः। अक्षोभ्या च हृदे ज्ञेया गोष्ठे भवति गोमती ॥ २१॥ चतुष्यथे प्रकीणी स्यात् द्यूतस्थाने कलिप्रिया । श्मशाने म्रियते भत्ती बन्ध्या भवति चाषरे ॥ २२ ॥ नवमे सर्वएवैते कन्यायाः परिगृह्यन्ते । वेदिपिण्डात् ग्टहीतात् क्रियावती भवति। सीतापिण्डात् ग्रहीतात् कृषिः फलते,-कृषिभूयिष्ठा भवतीत्यर्थः । सीता कृष्टक्षेत्रम्। इदपिण्डे ग्टहीते अक्षोभनीया ज्ञातव्या । गोष्ठपिण्डे ग्टहीते गोमती भवति । चतुष्पथपिण्डे ग्टहीते प्रकीर्ण विक्षिप्ता-रहेग्टहे गमनशीलेत्येतत् । द्यूतस्थानपिण्डे ग्टहीते कलहप्रिया भवति। कलिः कलहः । श्मशानपिण्डे ग्रहीते भी म्रियते-विधवा भवतीत्यर्थः । उषरपिण्डे ग्टहीते बन्ध्या भवति । नवमपिण्डे ग्टहीते कन्यायाः सर्वएवते पूर्वोताः फलवादाः परिग्टह्यन्ते। किं कारणम् ? । नव मस्य सर्वघटितत्वात् । तस्मात् नवमं पिण्डमाददानामिच्छयोपयच्छदा For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy