SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ प्र.] यासंग्रहः। "खशाखाविधिना इवा तच्छषेण बलिं हरेत् । इति ॥ यत्र मन्त्रा न विद्यन्ते व्याहृतीस्तव योजयेत् । मन्त्राणामेव चादेश मन्त्रात् कर्म समाचरेत्॥६॥ यत्र मन्त्रा नोपदिश्यन्ते, तत्र व्याहतीर्वक्ष्यमाणलक्षणाः योजयेत्अन्यत्र मायंप्रातर्वैश्वदेवादिभ्यः मादिभ्यश्च । मन्त्राणं पुनरुपदेश मन्त्रात् कर्म कुर्यात्, इत्यादरार्थमुक्तम् ।। भूरादयोव्याहृतयोवेदेभ्योनिःसृताः पुरा । महत्त्वं व्याहृतित्वञ्च प्राप्ताः स्वेनैव कर्मणा ॥७॥ भूर्भुवःखरिति तिस्रोव्याहतयः, वेदेभ्यः-ऋग्यजु:मामलक्षणेभ्यः पूत्र निर्गताः। ताः खल्वेताः स्खेनैव कर्मणा वक्ष्यमाणलक्षणेन महत्त्वं व्याहृतित्वञ्च प्राप्ताः। महतोभावोमहत्त्वम् । व्याहतीनां भावो व्याहृतित्वम् ॥ ॐकारजननात्तासां महत्त्वं परिभाष्यते । व्याहृता व्याहृतित्वञ्च तेन चैविद्यतां ययुः ॥८॥ ॐकारस्य जननात् तासां महत्त्वमाचार्यरुच्यते। ताश्च वेदेभ्यो व्याहताः सत्यः व्याहृतित्वं ययुः। तेनैव वेदत्रयेभ्योव्याहृतत्वेन हेतुना त्रैविद्यताञ्च ययुः । त्रिवेदेषु भवास्त्रविद्याः । तद्भावस्वैविद्यता । अथ वा। विद्या,-इति वेदमाचक्ष्महे। तिहणं विद्यानां भावः त्रैविद्यम् । यस्माद्वेदत्रयेभ्यो व्याहताः, तस्माद्वेदत्रयभावं ययुरित्यर्थः ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy