SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ह्यासंग्रहः । Acharya Shri Kailassagarsuri Gyanmandir [१ प्र. ] तत उदक्संस्थामेकविंशत्यङ्गुलामाग्नेयीं रेखामुल्लिखेत् । ततः प्राक्संस्थां प्रादेशपरिमितां प्राजापत्यामैन्द्रीञ्च रेखामुल्लिखेत् । ततः पुनरपि प्राक्संत्र्यां द्वादशाङ्गुलपरिमितां सौमीं रेखामुल्लिखेत्, दूति । कात्यायनस्तु कर्मप्रदीपे, SCS "लक्षणे प्राग्गतायास्तु प्रमाणं द्वादशाङ्गुलम् तन्मूललग्ना योदीची तस्था एवं नवोत्तरम् । उदग्गतायाः संलग्नास्तिस्र: प्रादेशमात्रिकाः । सप्तसप्ताङ्गुलांस्त्यक्त्वा कुशेनैव समुल्लिखेत्” । इति प्रकारान्तरं स्मरति । तदनयोः प्रकारयोर्विकल्पो बोद्धव्यः । कुतः ? | द्वयोरेव स्वशास्त्रोक्तत्वात् ॥ श्रीलग्नानां रेखाणामन्तरालमुलेखनप्रकारञ्चाह - षड़ङ्गुलान्तराः कार्य्यी आग्नेयी संहितास्तु ताः ॥ ५५ ॥ पार्थिवायास्तु रेखायास्तिखस्ता उत्तरोत्तराः । श्राग्नेय्यामुदकसंस्थाया मेकविंशत्यङ्गलमितरेखायां मंहिताः संलग्नः, ता श्वतस्त्रो रेखाः प्रत्येकं षड़ङ्गलव्यवहिताः कर्त्तव्या: । "सप्त सप्ताङ्गुलांस्टक्का कुशेनैव समुल्लिखेत्” । इति कर्मप्रदीपाक्रमन्तरं तदुक्तकरपे बोद्धव्यम् । पार्थिवाया: पार्थिव्या रेखाया अन्या यास्तिस्रो रेखाः, ता उत्तरोत्तराः कार्य्यीः । सा खल्वियं पार्थिवी रेखा स्थण्डिलस्य दक्षिणतः स्यात् । कथं ज्ञायते ? । श्रन्यासां तिसृणां रेखानामुत्तरोत्तरत्वषङ्गुल न्तरत्वयोरनुरोधात् ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy