SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. १० का. ग्रह्यसूत्रम् । सव्यं पादमवनेनिज इति सव्यं पादं प्रक्षालयेत्, दक्षिणं पादमवनेनिज इति दक्षिणं पादं प्रक्षालयेत् सव्यं पादम्, इति मन्त्रेण, मव्यं वामं, पादं प्रक्षालयेत्। अनेनैव सूत्रशेषो व्याख्यातः । प्रक्षालयेत्, इति क्रियाभ्यामः ; निर्देशकमेण पादयोः प्रक्षालनार्यः । अन्यथा उदकसंस्थतानुरोधात् दक्षिणं प्रक्षाल्य ततः सव्यस्य प्रक्षालनं स्यात् । तच्चानिष्टम् । तथा च स्मरणम् । “पादं प्रक्षालयेद्विप्रो दक्षिणं प्रथमं मदा । शूद्रग्तु वामं प्रथमं सामवेदी तथा बधूः” । इति । "मामगः क्षालयेत् सव्यमादावन्यस्तु दक्षिणम्” । इति चैत्रमादि ॥०॥ १० ॥०॥ पूर्वमन्यमपरमन्यमित्युभौ शेषेण ॥ ११ ॥ पूर्वमन्यमिति मन्त्रेण उभौ पादौ शेषेणावशिष्टेनोदकेन प्रक्षालयेत्अईणीयः । मन्त्रिकर्षातिशयाइक्षिणस्यैव पादस्य प्रक्षालनं स्यात्,इति तन्निरासार्थम्-उभौ,--इत्याह । श्राह । पूर्वमन्यमित्युभौ शेषेण, इति वक्रव्ये, पूर्वमन्यमपरमन्यमित भी शेषेण, इति गुरुकरणं किमर्थम्?। क्रमविशेषार्थम्, इति ब्रूमः । कथं नाम ? । एकैकपादप्रक्षालने यस्य पूर्व प्रक्षालनं यस्य च पश्चात् , उभयपादप्रक्षालनपक्षेऽपि तस्यैव पूनं तस्यैव च पश्चात् प्रक्षालनम् इति । 50 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy