SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. १० का.) ग्रह्यसूत्रम्। वाशब्दः तुशब्दार्थः। यदा पुनरेनमहयेयुस्तदा विष्टरादीनि वेदयेरन् , इत्यनागतेनाभिसंबन्धो वर्णनीयः ॥०॥ ४ ॥१॥ अथेदानीमईणविधिविवक्षयेदमाह,विष्टरपाद्यार्थ्याचमनीयमधुपकानेकैकशस्त्रिस्त्रिर्वे दयेरन् ॥५॥ विष्टरः, "ब्रह्मविष्ठरयोश्चापि सन्देहे समुपस्थिते । ऊकेशो भवेद्ब्रह्मा लम्वकेशस्तु विष्टरः । कतिभिस्तु भवेद्ब्रह्मा ? कतिभिर्विटरः स्मृतः ? । पञ्चाशद्भिः कुशैब्रह्मा तदर्द्धन तु विष्टरः” । इति आचार्यपुत्रेण ग्टह्यासंग्रहे व्याख्यातः। कात्यायनेन तु कर्मप्रदीपे, "यज्ञवास्तुनि मुख्याञ्च स्तम्बे दर्भवटी तथा । दर्भमंख्या न विहिता विष्टरास्तरणेष्वपि”। इति विटरे दर्भसंख्या निषिद्धा । तदनयोर्विकल्पः,-पञ्चाशदी कुशैविटरः स्यात् , असंख्यातेवा, इति । कथं ज्ञायते ? । दयोरेवास्मदाचार्याभ्यामनुशिष्टत्वात् अनन्यगतेर्वचनात् । सम्भवे पञ्चाशदर्द्वरसम्भवे पुनरपरिमितैरपि कुशेर्विटरो भवति, इति नारायणोपाध्यायाः । रघुनन्दनस्तु दर्भमंख्यावचनमाचार्य्यपुत्रस्येत्येतदजानान: कात्यायनवचनविरोधात् तद्वचनं शाख्यन्तरीयमितिवर्णयन् कत्यनारसिकत्वमात्मनः ख्यापयाञ्चकार । अन्यदपि दर्भवटुप्रसङ्गात् पूर्वमेव व्याख्यातम्। 5C For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy