________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीय-गृह्यसूत्रे चतुर्थप्रपाठके दामी काण्डिका ।
क्रमप्राप्तानां मन्त्राणं विनियोगमिदानी वक्तुमारभते,
उत्तरता गां बसोपतिष्ठेरनहणा पुत्रवाससेति॥१॥
उत्तरतः उत्तरस्यां दिशि । कस्य ?। अर्हणप्रदेश य । कथं ज्ञायते ?। 'यत्रै नमर्हयिष्यन्तः म्युः' इति सूत्रयिष्यमाणत्वात्। गां स्त्रीगवीं बवा। स्त्रीगवीमिति कुतो वर्ण्यते ?। लिङ्गादित्याह । धेनुः, इति पयस्वती-इति चैवमादिमन्त्रलिङ्ग खल्वेवमनुग्रह ते । न च पुंगव परिग्रहे कारणं पश्यामः । तस्माद् यथोक एवार्थः । तदेवं गां बध्वातामेवाभिमुखाः मन्तः, अर्हण पुत्रवासमा, इति मन्त्रेणोपतिष्ठेरन्आराधयेयुः । उपस्थितत्वान्मन्त्रलिङ्गाच तामेवोपतिष्ठेरन् न पुनरहणीयमिति बोद्धव्यम् । के उपतिष्ठेरन्? । ये अर्हयिय्यन्तः स्यः । कथं ज्ञायते? । उपस्थितत्वात् । बहुवचननिर्देशाञ्च । यदि पुनरहणीय ऐवोपतिष्ठेत, तीकवचनं कुर्यात् । 'यत्रैनम्'-इत्यहणीयस्यैकवचनेन निर्देशात्। आह । अर्हयितुरेकत्वात् अस्यामपि वर्णनायां नैव बहुवचनस्थार्थवत्तां पश्यामः । एवन्तर्हि बहुवचनं कर्तुर नियमार्थ भविष्यति । कथं नाम? । ये केचिद्गृह्या उपतिष्ठेरन् , न पुनरईयितेवेत्यस्ति नियमः, इत्यभिप्रायः । अथवा । बहुवचनं कुर्वन्नाचार्यः सर्वेरेव स्टोरहणीयाईणार्थमप्रमत्तैर्भवितव्यमित्युपदिशति ।
For Private and Personal Use Only