SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं [प्र. ३ का.] "त्रोंस्तु तस्माद्धविः शेषात् पिण्डान् कृत्वा समाहितः । औदकेनैव विधिना निवपेद्दक्षिणामुखः” । इति। परस्तादपि, "पिण्डनिवपणं केचित् पुरस्तादेव कुर्वते” । इति,-पिण्डप्रदान एव पिण्डनिपणपदप्रयोगो दृश्यते । अपिच । कस्यचित् पिण्डदानम्, कस्यचिच्च ब्राह्मणभोजनं प्रधानम्-इत्यतो हि कारणात् समुच्चयपक्षः प्रादुर्भवति। तत् किमत्र करिष्यन्ति अन्यतरप्राधान्यावेदकानि वचनानि । स खल्वयमलङ्कारः समुच्चयपक्षस्य न दोषः । अथवा । क्वचित् पिण्ड: प्रधानम्,- यथा गयापिण्डपित्यज्ञादौ । क्वचित् ब्राह्मणभोजनम्, यथा नित्यश्राद्धादौ । कचिच्चोभयम,-यथा मपिण्डीकरणादौ । इत्यस्तु किं विस्तरेण ॥०॥ ३७ ॥०॥ इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततीलङ्कारस्य कृतो गोभिलीयग्टह्यसूत्रभाष्ये चतुईप्रपाठकस्य तृतीया काण्डिका ॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy