SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं [४ प्र. ३ का.) नस्थानतिदेश उक्तः । न चैवमानर्थक्यं शक्य ते वनुम्। अथ मन्यसे,नासौ प्रधानस्यातिदेशः । कस्य तर्हि ?। अङ्गस्यैव । प्रधानं खल्वत्र जुहोतिना यजतिना च विहितं, द्रव्यदेवते पुनरङ्ग एवातिदिश्येते, अशान्तरवत्-इति । एवन्तर्हि प्रकृतेऽपि श्राद्धचोदनया प्रधानं विहितम्-दूति न प्रधानस्यातिदेशः, अपितु अङ्गमेव-इतिकर्त्तव्यता कलापः प्रदिश्यताम् । कथन्तर्हि पिण्डदानस्य निषेधः क्रियते ? । इतिकर्त्तव्यतानिषेधाभिप्रायतया, इति ग्रहाण । नायं पिण्डदानस्य निषेधः, अपितु तदितिकर्त्तव्यताया एव। तस्थाश्च निषेधात् पिण्डोऽपि न दीयते । उत्तरवेदेनिषेधात् वैश्वदेवे सुनासीरीये च यथा न अग्निः प्रणीयते, तद्वत् । अपिच । कस्मात् कारणादुभयो: प्राधान्यपक्षे पिण्डदानस्य निषेधो न घटते, दूति तावदसौ प्रष्टव्यः । स यदि ब्रूयात्;-प्राप्तेरभावात्-दूति । तं प्रति ब्रूयात्;-विध्यन्तेन प्राप्तेरभावेऽपि विध्यादितः प्राप्तिरस्त्येव । कुतः ?। श्राद्धपदस्यैवैवमर्थात् । तत्र, विध्यादितः प्राप्तः पिण्ड: प्रतिषिध्यमान स्तदितरकरणमेव प्रयोजयति। सेोऽयं पर्य्य दासो न निषेधः । यथा, सर्वस्वं दद्यात्, इत्यत्र, भूम्यादि प्रतिषेधात् तदितरत् सर्वस्वमर्थः, तथैवात्रापि पिण्डेतरत् श्राद्धमर्थः, इति न किञ्चिदनुचितम् । एतेन "श्राद्धं सपिण्डकं कृत्वा"-इत्यादिवचनान्यपि व्याख्यातानि । गोषन्यायात् खल्वेवमुच्यते प्रसंशार्थम्। तदेवमादिवचनवैचित्र्यम्षीणामबुद्धा न बुद्धिमनिर्भमितव्यम् । यत् पुनरङ्गभूत पिण्डदानादितरदेव कमान्तरं प्रधानं पिण्डदानम्-इति वर्णितम् । नत्र पृच्छामः । तस्य श्राद्धत्वमिव्यते न वा ?-इति । यदि तावत् For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy