SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलोयं [४ प्र. ३ का. ब्राह्मणं वा भोजयेत् ॥३३॥ पिण्डान्-इत्येव ॥ ॥ ३३ ॥०॥ गवे वा दद्यात् ॥ ३४ ॥ पिण्डानेव । इदमिदानों विचार्य्यते। किमत्र मात्रादिश्राद्धं मातामहादिश्राद्धञ्चास्ति, उत यावदुतत्वान्न ?-दति। न, इति ब्रूमः । कुतः ? । यावदुतात्वादेव । योषित्श्राद्धं खल्वस्माकमवमानदिनव्यतिरेकेण पृथक् नास्ति । तथा च कर्मप्रदीपः । “न योषिद्भ्यः पृथग् दद्यादवमानदिनादृते । स्वभर्नु पिण्डमात्राभ्य स्तृप्तिरासां यतः स्मृता” । इति । वचनबलात्तु क्वचित् क्रियते। तदप्याइ, स एव । "मातुः प्रथमतः पिण्डं निर्बपेत् पुत्रिकासुतः । द्वितीयन्तु पितुस्तम्या स्तृतीयञ्च पितुः पितुः” । इति । "मातुः सपिण्डीकरणं पितामह्या महोदितम्"। इति च । न च परशास्त्रमप्यादत्तुं शक्यते। स्वशास्त्रोपरोधप्रसङ्गात्। तस्मात्, मात्रादिश्राद्धं तावदत्र न कर्त्तव्यमेव। मातामहादिश्राद्धमप्यत्र न करणीयम् । तथा च कर्मप्रदीपोप्याह। "कर्षुसमन्वितं त्यक्ता तथाऽऽद्यं श्राद्धषोड़शम्। प्रत्याब्दिकञ्च, शेषेषु पिण्डाः स्युः षड़िति स्थितिः”। इति । तस्मात् पित्रादित्रयाणामेवात्र श्राद्धम-इति सिद्धम् ॥०॥ ॥ ३४ ॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy