SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ प्र. ३ का.] ग्रह्यसूत्रम् । इति। एिश्यमानेयं तन्नैव प्राशितं नैवाप्राशितञ्च भवति"-इति, "उपवासा यदा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवास तदा कुर्यादाघ्राय पिटसेवितम्” । इति च श्रुतिस्मृती नियममवगमयतः । श्राचार्योऽपि “प्राश्नीयात्" -इति प्रशब्देनैतदेव दर्शयति । सेयमुच्छिष्टस्य प्रतिपत्तिः। श्रतो यत्रोच्छिष्टं न शिष्यते, तत्र नैष नियमः। प्रतिपत्तेः प्रतिपाद्याप्रयोजकत्वात्। यत् पुनर्यमवचनम् "भक्ष्यं भोज्यं तथा पेयं यत्किञ्चित् पच्यते ग्टहे । न भोक्रव्यं पितृणान्तदनिवेद्य कथञ्चन" । इति। यच्च शववचनम् “यत्किञ्चित् पच्यते गेहे भक्ष्यं भोज्यमथापि वा। अनिवेद्य न भुञ्जीत पिण्डमूले कथञ्चन" । इति। तत् श्राद्धार्थपाकादन्यदपि यत्किञ्चिद् भक्षणार्थं ग्टहे पच्यते, तदपि पितॄणां निवेद्यैव भोकव्यम्-दूत्युपदिशति । न पुनः श्राद्धशेषातिरिक्रस्य भोजनं निषेधयति। कथं ज्ञायते ?। अनयोरेव श्राद्धशेषष्यतिरिकस्यापि पिढणं निवेद्य भोजनोपदेशात् । यत्किञ्चित्इति ग्रह-इति च करणाश्चैवमवगच्छामः। अतएव पिण्डमूलेपिण्डान्तिके निवेदनमुपदिश्यते, न तु तेनैव पिण्डदामं ब्राह्मणभोजनं बा। आह । कुतः पुनरियमवधारणा;-पिण्डमूले निवेदनं न ब्राह्मणभोजनार्थम् इति । ननु, येषां पिण्डदानात् परतो ब्राह्मणभोजनं तेषां ब्राह्मणभोजनार्थमपि पिण्डमले निवेदनं सम्भ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy