SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [प्र. २ का. ग्रह्यसूत्रम् । ३१९ "लक्षणावृदेषा सर्वत्र" इति सर्वत्रग्रहणेन व्यायवगमात् । दूह च, लक्षणं कृत्वा,-दति वचनस्यैवमर्थत्वात् । अन्यथा खल्वग्निप्रणयने लक्षणं प्राप्तमेवेति पुनर्वचनमनर्थकमेव स्यात् । तस्मात् , लक्षणे रेखानां प्राग्गतत्वानुरोधात् तत्र प्रामुखकरणवधारणाच्च, अत्रापि प्राङ्मुख एव कुर्यादित्यवगच्छामः। एवञ्च, यथा अन्यत्रलक्षणमुपवीतिना क्रियते, तथा अत्राप्यस्मिन् कर्मण्यपवीतिनैव भवितव्यम् । उपरिष्टात् खल्वाचार्यः,-"प्रत उद्धं प्राचीनावीतिना" इति कुर्वन् , अधस्तात् किञ्चित् कर्म प्राचीनावोतिना, किञ्चिदुपवीतिना, किञ्चिच्चोभयथैव कर्तव्यमित्यपदिशति । एतच्चापरिष्टादेव व्याख्यास्यामः । अतएव कर्मप्रदीपः । "दक्षिणं पातयेज्जानु देवान् परिचरन् सदा । पातयेदितरज्जानु पिढन परिचरन्नपि" । इति स्मरति । तदिदं वचनम् ,-पिट कर्मान्तःपात्यपि देवपरिचरणं दक्षिणजानुपातेन एवं दैवकर्मान्तर्गतमपि पिटपरिचरणं इतरजानुपातेन करणोयम्, इत्याह । कथं ज्ञायते?। सदा शब्दस्यैवमर्थत्वात् । एवञ्च, उपवीतित्वादावपि तथैव वर्णयितुमुचितम् । कस्मात् ? । कारणस्याविशेषात्। अग्निं किल देवमाचक्षते नैरुनाः ॥०॥ ८॥०॥ पश्चादग्नेरुलूखलं दृश्हयित्वा सकृत् संगृहीतं वोहि मुष्टिमवहन्ति सव्योत्तराभ्यां पाणिभ्याम् ॥६॥ उत्तरशब्द उपरितनवचनः। सव्यः पाणिरुत्तरो दक्षिणश्चाधरो 12 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy